________________
परिशिष्ट - 'क' • २४९
५. श्रीसुमतिनाथस्तवः ॥ सुमतावावली पद्मां, सुमतावस्थिता नता। सुमतावपका नेया, सुमतामयसद्मनि ॥१॥ भवनाशगुणश्रेणिभवनाऽसुमतां श्रिये। भव नाथ ! मनोजन्मभव ! नागगते ! सदा ॥२॥ कामद ! त्वां प्रजा दृष्ट्वा, कामदर्पहरं मुदम् । कामद ! श्रेयसा लेभे, का मदक्षां युतां न हि ॥३॥ कमलादान्यदोषाणां, कमला तारमाश्रितम् । कमलाक्षररक्षास्ता, कमलारेभवान्न हि ॥४॥ तारया श्रद्धया चारु, तारयास्ते स्तुतिं व्यधुः । तारयाज्जनता देव !, तारयाऽऽपन्नदीपतेः ॥५॥
६. श्रीपद्मप्रभजिनस्तवः ॥ श्रीपद्मप्रभनाथाय, सनाथाय श्रिया नमः । 'योगीन्द्राय नतेन्द्राय, महते परमात्मने ॥१॥ तवाऽचिन्त्यप्रभावस्य, स्वरूपं वेत्ति कः प्रभो ! । पाप्ताऽनन्तचतुष्कस्य, महेशस्य महात्मनः ॥२॥ शाश्वतं योगिनां ध्येयं, विरूपं रूपवर्जितम् । शिवश्रीकण्ठशृङ्गारहारं सारं सदा नुमः ॥३॥ महादेवो महानन्ददायको जिननायकः । जयति क्षीणकर्मारिर्महिमास्पदमन्वहम् ॥४॥ महनीयचरित्रस्य, श्रेष्ठस्य परमेष्ठिषु । गुणग्रामगरिष्ठस्य, किङ्करोस्मि तव प्रभो ! ।।५।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org