________________
२४८ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः
३. श्रीशम्भवनाथस्तवः ॥ श्रीशम्भवं जिनाधीशं, योगीन्द्रं नौमि सादरम्। जगत्पूज्यं मुदा हेलिमुल्लसन्महसादरम् ॥१॥ निस्तीर्णरौद्रसंसारदावपावकशम्भव । सेनामातः सदा तात, सहावरावशम्भव (?) ॥२॥ त्वं जीयाः सर्वदाऽनर्घ्यगुणकल्पद्रुनन्दन !।.. जितारिगण ! लोकेश !, जितारिनृपनन्दन ! ॥३॥ .. यं नत्वा लेभिरे शैवसम्पदं मंक्षु देहिनः। . स त्वं सत्वं क्षयं कर्तुं, मोहराजस्य देहि नः ॥४॥ तत्याज शासनं जातु, तावकं पावकं न यः । तं शास्वतसुखावासं, कैवल्यं भविकं नयः ॥५॥
४. श्रीअभिनन्दनजिनस्तवः ॥ सोऽभिनन्दननाथ ! त्वं विजयस्व ! दयाऽमदः । यस्य ते हृद्यमेयाऽस्थाद्, विजयस्व दयामदः ॥१॥ जनतापन्नदीतारतरणे ! भवतारण ! । मोहारे ! स विकान्त्यास्ततरणे ! भव तारण ॥२॥ श्रीस्ते नहि मुदे कस्य?, प्रभो ! विश्वाभिनन्दन ! । रक्ष मां भवतो भास्वत्प्रभो, विश्वाभिनन्दनः ॥३॥ पाहि ता: शोषिताऽघौघ ! नीराग ! ततमादया। त्वं प्रजा नहि तत्याज, नीरा गततमादया ॥४॥ सा श्लाघ्या स्वदृशा प्रास्तकमला सदयालयम् । या त्वा गत्वा प्रजा स्तौति, कमलाऽऽसदयालयम् ॥५॥
.
.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org