________________
१०) चतुर्विंशतिजिनस्तवाः ॥
१. श्रीआदिदेवस्तवः ॥ श्रीनाभेय ! सुनाभेयसदनं सदनन्तचित् । नत्वा न त्वा दयालो ! के लोके लोकेशतामगुः ॥१॥ [अनुष्टुभ्] हतमोहतमोद्रोह: कामदः कामदर्पहा । जय सद्भालसद्भाल ! त्वमितापदतापदः ॥२॥ स्तवं निर्माय निर्माय !, न तवाऽऽनतवासव! । सुकृती सुकृती जिज्ञे, कोऽमलः कामलध्वने ! ॥३॥ नरमानरमानडूप्रभञ्जनप्रभञ्जन । जनताऽजनता लेभेऽदर्प ! का दर्पका त्वयि ॥४॥ यस्त्वा भी-मारि-भीमारि-प्रमद ! प्रमदप्रदः । । नमतीन ! मतीरेष, सदयाः सदयाश्रयेत् ॥५॥
२. श्रीअजितनाथस्तवः ॥ श्रीमन्तमजितं देवं, कषायैरजितं सदा । त्रैलोक्यवन्दितं देवं, घोरसंसारपारगम् ॥१॥ अद्य प्राप्ताः श्रियः सर्वा, मया तीर्णो भवार्णवः । जीवितं सफलं मेने, यत् त्वं दृष्टोऽतिदुर्लभः ॥२॥ पवित्रा रजनी सैव, प्रशस्यो दिवसोऽपि सः । स एव जगतीनाथः, यत्र स्यात् तव दर्शनम् ॥३॥ त्वं मरौ कल्पशाखीव, जङ्गले गाङ्गपूरवत् । सुपर्वमणिवन्नि:स्वे, दुर्लभोऽसि प्रभो ! भवे ॥४॥ अनविद्या महाविद्याः, सम्पदो विपदोज्झिताः । सौभाग्यं सह भाग्येन, भाक्तिकः संश्रयेत् तव ॥५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org