________________
९) अज्ञातकर्तृकपञ्चजिनस्तुत्यन्तर्गते स्तुती ॥ .
१. श्रीआदिजिनस्तुतिः ॥ ऋषभजिनमनन्तं नाभिभूतं द्विधाऽलं, कृतसकलविनीतं सद्वृषश्रीविशालम् । कनकरुचिशरीरं विश्वविश्वावतंसं, प्रणमत मरुदेवीकुक्षिकासारहंसम् ॥१॥ [मालिनी] .. प्रणतसुरनिकाय ध्वस्तनिःशेषमाय, निहतनमदपाय प्रोज्वलच्छायकाय । निखिलजनहिताय श्रीयुगदीश्वराय, ऋषभजिन ! नमस्ते सिद्ध ! विश्वे समस्ते ॥२॥ विमलविमलशैलेऽष्टापदे श्रीअयोध्यापुरि गुरुनगरे श्रीअर्बुदे गूजरे च।. गजपदवरवीणाग्रामकासद्रहादौ, जिन ! वृजिनविमुक्त ! त्वां नमस्यं नमामि ॥३॥
२. श्रीशान्तिजिनस्तुतिः ॥ शान्तं कान्तं शिवपदगतं शान्तिदुःखाग्निजातं, कल्याणाभं गुणगुणनिधि विश्वसेनाङ्गजातम् । विश्वश्रीणां कुलगृहमहाशान्तिदं शान्तिनाथ, कल्याणाय प्रणमत जिनं शान्तिलक्ष्मीसनाथम् ॥१॥ [मन्दाक्रान्ता] सौम्य:श्रीमान् कृतकुलवयाऽत्यन्तबोधो विमुक्तः, दोषावन्द्य सत[त] मुदितो निष्कलङ्कः स्मरारिः । राजापूर्वः परिहतभवो निस्तमाः पापताप-, शान्ति शान्तिर्दिशतु लुठतां पादपीठे जनानाम् ॥२॥ आप्ते यस्मिन् सुचिरमचिराकुक्षिमाप्ते क्षमायामाधिर्व्याधिः क्षयमुपगता किन्त्वनीत्याश्रितेऽपि । नीतिः पुष्टाजनिकृततमस्तान्तिशान्तिनितान्तं, स श्रीशान्तिर्भुवि विजयते सत्यनामा जिनेन्द्रः ॥३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org