SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - 'क' • २४५ ३. श्रीपार्श्वनाथस्तोत्रम् ॥ तवैश नामतस्त्वरा दरा भवन्ति गत्वराः । प्रसृत्वरा रवेः करास्ततो यथा तमोभराः ॥ १॥ [ प्रमाणिका ] अथोत्कराश्च नश्वरा, धरेश्वराद्धि तस्कराः । स्थिराः स्युरिन्दिराभरा, स्वमन्दिरान्नहीत्वराः ॥२॥ विभोः स्तवेषु तत्पराः नरा जगत्सु जित्वराः । तकेषु तत्परादरादरातयोपि किङ्कराः ||३|| विधीयतां जिनेश्वराऽऽशु पार्श्वदृक्कृपापरा । प्रराढ्यतांतरात्वरा, ममापि धर्मशीलराः ||४|| ४. श्रीमहावीरस्तोत्रम् ॥ योऽचीचलदुश्च्यवनोरसि स्थितः, क्रमाङ्गुलीतः किल कर्णिकाचलम् । स्वनामचुञ्चश्च चरिक्रियादयं, स श्रीमहावीरजिनो महोदयम् ॥१॥ [उपजाति: ] अर्कः शुभोदर्कमतर्कितश्रियं, जैवातृकः प्रातिजयं यशःक्रियम् । भौमो भिनत्तीतिमनीतिजाम्भयं, बुधो ददातीह बुधोचितां धियम् ॥२॥ गुरुर्गुरुं ज्ञानगुणं विधत्ते काव्यः कलां काव्यकलां च दत्ते । शनिः शुभं राहुरयं शिखीशं, नुः सेवितुर्यच्छति वीरमीशम् ॥३॥ एवं सेवां दधतः पञ्चजिनानां कथां प्रपञ्चन्ते । ते सोख्यानि लभन्ते, भव्य श्रीधर्मशीलभृतः ||४|| [आर्या ] Jain Education International XXX For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy