________________
परिशिष्ट - 'क' • २४३ प्रमोदेन मनो ! नृत्य, रोमाञ्चैर्वपुरुल्लस। चिरादुन्मीलतं नेत्रे !, ननु वीरवरोऽग्रतः ॥३॥ [अनुष्टुभ्] अजन्मदायिने पित्रे, बान्धवायाऽविरोधिने। अद्रोहिणे च मित्राय, श्रीवीर ! भवते नमः ॥४॥ श्रीवीर ! सद्यो नमयाऽग्निमग्न, सङ्क्लिष्टभावार्जितकर्मकक्षम् । भस्मीभवत्वाशु विरागिणो मे, तथा यथा नित्यसुखी भवामि ॥५॥ [उपजाति:] इति जिनपतिपादाः पञ्च पञ्चाधिनाथाः, सुललितसुगमार्थैर्नव्यकाव्यैः कथञ्चित्। . कृतसमुचितसेवा: सेवकानां जनानां, जनितमधुरबोधा बोधिलाभाय सन्तु ॥६॥ [मालिनी]
७) शत्रुञ्जमण्डनश्रीआदिनाथस्तवनम् ॥ नमत मानववञ्छितदायकं, सकलमूर्तिमतां सुखकारकम् । दशनकान्तिपराजितमौक्तिकं, दुरितदुर्गतमोहनिवारकम् ॥१॥ [द्रुतविल०] कनककोमलसञ्चरसुप्रभं, भुवनभक्तजनाम्बकसन्निभम् । कुमतवारणतीव्रगप्रभुं, मथितमासुतमानमहं विभुम् ॥२॥ प्रथितनाभिधराधवदेहजं, भवपयोधिविनासनकुम्भजम् । प्रबलकर्मविवर्जितनिर्मलं, दलितजन्म-जरा-भयशीतलम् ॥३॥ रुचिरमोदविधायकसोदरं, भविकवार्जविबोधनभास्करम् । मुदिरगर्जितगोगणमीकर, विषमदुष्टविपद्धरमाकरम् ॥४॥ नर-नरेन्द्र-सुराधिपसेवितं, वृषभलञ्छनपादविराजितम् । प्रथमयोगिवरं जगतां मतं, प्रथमपारगतं प्रणमामि तम् ॥५॥ श्रीशत्रुञ्जयमण्डन, आदिनाथो गुणाकरः । श्रीहंसचन्द्रशिष्येण, मण्डनेन स्तुतो मुदा ॥६॥ [अनुष्टुभ्]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org