________________
२४२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः सर्वाङ्गसुभगाकारं कारणं सुखसम्पदाम् । तत् तव मुखं दृष्टमिष्टलाभो बभूव मे ॥२॥ [अनुष्टुभ्] भुवनानन्दविधात्री, यत्र श्रीः काऽपि निर्भरं वसति । तज्जिनपतिपदकमलं, भवे भवे भवतु मे शरणम् ॥३॥ [आर्या] दानिनां परमो दानी, मुनीनां परमो मुनिः। ज्ञानिनां परमो ज्ञानी, शान्तिरस्तु सुशान्तये ॥४॥ [अनुष्टुभ्] . . स्वामिनामपि यः स्वामी, गुरुणामपि यो गुरुः । देवानामपि यो देव, सेव्यतां शान्तिरेष सः ॥५॥
३. श्रीपार्श्वनाथनमस्कारस्तोत्रम् ॥ अभिनवमङ्गलमालाकरणं हरणं समस्तदुरितस्य। श्रीपार्श्वनाथचरणं प्रतिपन्नो भावतः शरणम् ॥१॥ [आर्या] आयासेन विना लक्ष्मीविनाऽपेक्षेण वैभवम् । विनैव तपसा सिद्धिर्जपतां पार्श्व ! नाम ते ॥२॥ [अनुष्टुभ्] पार्श्वजिन ! शासनं ते निबिडमहामोहतिमिरविध्वंसे। मयि रत्नदीपकल्प ! तनोतु तेजो विवेकाख्यम् ॥३॥ [आर्या] त्वरेथां चरणौ ! जिह्वे ! कुरु स्तोत्रं शिरो ! नम । हर्षाश्रु मुञ्चतं दृष्टी, अग्रेऽसौ परमेश्वरः ॥४॥ [अनुष्टुभ्] भवे भवान्तरे वाऽपि, दु:खे वा यदि वा सुखे। पार्श्वध्यानेन मे यान्तु, वासराः पुण्यभासुराः ॥५॥
__४. श्रीमहावीरनमस्कारस्तोत्रम् ॥ कनकाचलमिव धीरं, समुद्रमिव सर्वदाऽपि गम्भीरम् । लब्धभवोदधितीरं, महामि कामं महावीरम् ॥१॥ [आर्या] दुरितदवानलनीरं, नीरागं भीतिभूमिकासीरम् । सिद्धिसहकारकीरं, करोमि निजमानसे वीरम् ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org