________________
परिशिष्ट - 'क' • २४१ प्रकटपञ्चफणामणिभूषणं, सपदि दूरनिवारितदूषणम् । विषमतामसनाशदिनेश्वरं, भज सुपार्श्वजिनं जगदीश्वरम् ॥५॥ इति कविस्तुतिसद्गतिगोचरं, विजयतो भयतोयधितारकम् । प्रहित एष विशेषहितावहः, सृजतु सप्तमतीर्थपतिः सुखम् ।।६।।
६) अज्ञातकर्तृकाणि पञ्चजिनस्तोत्राणि ॥
१. आदिनाथनमस्कारस्तोत्रम् ॥ जय जय जगदानन्दन ! जय जय वरनाभिनन्दन ! जिनेन्द्र !। जय जय करुणासागर ! मनोरथा अद्य फलिता मे ॥१॥ [आर्या] अद्य मे सफलं जन्म, अद्य मे सफला क्रिया । सफलोऽद्य प्रयासश्च, दर्शनादादिमप्रभोः ॥२॥ [अनुष्टुभ्] प्रातरुत्थाय येनाऽयमादिदेवो नमस्कृतः । हेलया मोहभूपालस्तेन नूनं तिरस्कृतः ॥३॥ सुकृतं सञ्चितं तेन, दुष्कृतं तेन वञ्चितम् । येन प्रथमनाथस्य चरणाम्भोजमञ्चितम् ॥४॥ त्रिभुवनाऽभयदानविधायिने, त्रिभुवनाद्भुतवाञ्छितदायिने । त्रिभुवनप्रभुतापदशालिने, भगवते ऋषभाय नमो नमः ॥५॥ [द्रुत०]
. २. श्रीशान्तिनाथनमस्कारस्तोत्रम् ॥ किं कल्पद्रुमसेवया यदि मया शान्तिः श्रितः सर्वदः, किं कर्पूरशलाकया नयनयोर्जातोऽतिथिश्चेदसौ। किं पीयूषपिपासया यदि पपौ तत्कीर्तिवार्तारसौ, यद्वाऽन्यैरपि चेन्द्रियप्रियतमैः पर्यास्तमर्थागमैः ॥१॥ [शार्दूल०]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org