________________
२३४ . श्रीनेमिनाथस्तोत्रसङ्ग्रहः श्रीकुन्थु जगदुत्तमाऽरकपति श्रीमल्लिनाथं वरं, वल्गुश्रीमुनिसुव्रतं नमिजिनं श्रीपार्श्ववामाङ्गजम् । ईडे देवनरेन्द्रवृन्दमहितं सत्साधुभिः सेवितं, चेत्थं विंशतिमर्हतां प्रतिदिनं श्रेयस्करी सर्वदा ॥२॥
९. श्रीबटुकाष्टकम् ॥... शीर्षे फणीन्द्रं गजचर्मराजितं, प्रचण्डदोर्दण्डजितारिमण्डलम् । सुरक्तनेत्रद्वयचारुविग्रहं, वन्दे त्रिसन्ध्यं बटुकं सनातनम् ॥१॥ [उपजाति:] सद्ग्रामसद्ङ्गसुशैलकानने, प्रधानवाप्यां प्रवरे जलाशये। गृहीतपूजं नतलोकपत्कजं, वन्दे त्रिसन्ध्यं बटुकं सनातनम् ॥२॥ सुगन्धसद्वर्णसुपुष्पमालया, सुशोभितं ह्यष्टभयान्तकारकम् ।। अनेकविघ्नप्रकरैकवारणं, वन्दे त्रिसन्ध्यं बटुकं सनातनम् ॥३॥ सिन्दूरतैलान्वितमूर्तिमालितं, सर्वोपहारैर्महितं दिवानिशम् । अनेकलोकार्थविधानतत्परं, वन्दे त्रिसन्ध्यं बटुकं सनातनम् ॥४॥ कदापि सद्बाल्ययुतं मनोहरं, कदापि चोद्दीपितयौवनोदयम् । कटिप्रदत्तोद्धुतघुर्घराखं, वन्दे त्रिसन्ध्यं बटुकं सनातनम् ॥५॥ चञ्चतिशूलं क्रमपादुकायुगं, सुकेशपाशं गलमुण्डमालकम् । अरातिवर्गस्य विदारणे क्षम, वन्दे त्रिसन्ध्यं बटुकं सनातनम् ॥६॥ सुप्ते स्थिते जाग्रति शैलमस्तके, सुदुद्धरे वैरिगणे समागते । सद्यानपात्रं बहुकामितार्थदं, वन्दे त्रिसन्ध्यं बटुकं सनातनम् ॥७॥ कार्यस्य सिद्धौ वरदं शुभार्थिनां, पुंसामभीष्टार्थकरं निरन्तरम् । श्ववाहनं सज्जनहर्षकारणं, वन्दे त्रिसन्ध्यं बटुकं सनातनम् ॥८॥ गञ्जेजीमे वरे श्रीमन्नेमीश्वरजिनालये। बटुकः क्षेत्रपालोऽयं, भूयात् साहाय्यकारकः ।।९।। [अनुष्टुभ्]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org