SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - 'क' • २३३ ६. श्रीशिखरगिरिवन्दनम् ॥ सविंशतिः श्रीजिननायकानां, सम्मेतशैले प्रवरे गिरीन्द्रे । निर्वाणमार्ग जगदुत्तमं वै, शुद्धात्मनामाश्रयमय्यभूतम् ॥१॥ [इन्द्रवज्रा] सुनेमिनाभेयसुवर्धमानसुवासुपूज्यं च विनैव लेभे । सुपूज्यसौभाग्यगणाधिपैर्या, सुवन्दिता सा वरभक्तिभाग्भिः ॥२॥ [उपेन्द्रवज्रा] प्रतिसनु (?) पदे दत्ते, जातो मे हर्षनिर्झरः । तं च जनाति सर्वज्ञो, नान्यो वेदयितुं क्षमः ॥३॥ [अनुष्टुभ्] ७. श्रीशिखरगिरिस्तुतिः ॥ श्रीसम्मेतगिरौ शृङ्गे, पार्श्वनाथो जगत्प्रभूः । निर्वाणपदमाप्तश्च, तं वन्दे सुतरां मुदा ॥१॥ सुराऽसुरनरेन्द्रैश्च, वन्दिता जिननायकाः । भवन्तु सुखदा नित्यं, सङ्घस्य गतकल्मषाः ॥२॥ द्वादशाङ्गात्मका वाणी, तीर्थनाथमुखोद्गता । भूयात् साहाय्यदा नित्यं, भविनां हितकारका ॥३॥ जिनसौभाग्यसूरेश्च, शासनोन्नतिकारिणि । शासनाऽधीश्वरी रम्या, करोतु सुखमव्ययम् ॥४॥ ८. श्रीशिखरगिरितीर्थपतीनां स्तुतिः ॥ स्मृत्वाऽहं शिखरेऽजितं गुणमितं? तूर्यं सदा पञ्चमं, षष्टं सत्तमसप्तमाऽष्टमजिनं श्रीपुष्पदन्ताभिधम् । वयं श्रीदशमं गणाधिपसमं२ बर्हिःककुत्सम्मितंरे, चाऽनन्तं दशपञ्चमं जिनवरं श्रीशान्तिनाथं मुदा ॥१॥ [शार्दूलविक्रीडितम्] १. 'तृतीयं' इति भावः । २. गणधिपः-शिवः तेन समं, अर्थात् एकादशम् । ३. बहि:-अग्नि:-त्रिसंख्यादर्शक: ककुद्-एकसंख्यादर्शक: बर्हिः ककुद्सम्मितं अर्थात् त्रयोदशम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy