________________
२३२ •
श्रीनेमिनाथस्तोत्रसङ्ग्रहः
५. श्रीशिखरगिर्यष्टकम् ॥ नगाधिराजं सुरराजसेवितं शिवैकमार्गं सुखसन्ततिप्रदम् । अघेभमालाहरणे मृगाधिपं, सम्मेतशैलं प्रणमामि भक्तितः ॥१॥ [उपजाति:] जगत्त्रयी पावनकारकं सदा, सन्तापदावानलवारिवाहकम् । अनेकवृक्षावलिभिर्विराजितं, सम्मेतशैलं प्रणमामि भक्तितः ॥२॥ भव्याङ्गिनां सातसमूहदायकं, सद्वर्णतो निर्जितमेघमालकम् । सत्पुष्पजालेन सुगन्धभूतकं, सम्मेतशैलं प्रणमामि भक्तितः ॥३॥ जिनेन्द्रसविंशतिसंयुतं वरं समाश्रितं साधुजनैः सुखावहम् । उत्तुङ्गताव्योमगणावलम्बिनं, सम्मेतशैलं प्रणमामि भक्तितः ॥|४|| नरेन्द्रवृन्दैर्बहुधा सुपूजितं, तीर्थेषु वर्यं महिमालयं शुभम् । भावारिसङ्घातविनाशनक्षमं, सम्मेतशैलं प्रणामि भक्तितः ॥५॥ सर्वार्थसंसाधनकल्पपादपं, सुभूरिचिन्ताहरणे मणिप्रभम् । भवाब्धिसन्तारणयानपात्रकं, सम्मेतशैलं प्रणमामि भक्तितः ॥६॥ प्रचण्डसिंहादिभयान्तकारकं, नद्यादिसंशोभितपार्श्वमण्डलम् । पदे पदे निर्जरपङ्क्तिशोभितं, सम्मेतशैलं प्रणमामि भक्तितः ॥७॥ सुशर्मदं सिद्धिकरं यशस्विनं, गुणाकरं भव्यविकाशकारकम् । अमोघशक्तिं सकलार्थभाजनं, सम्मेतशैलं प्रणमामि भक्तितः ॥८॥
७
'नन्दर्षिवसुचन्द्राब्दे, माघे कृष्णदले शुभे ।
सप्तमीकर्मवाट्यां च स्तुतः सम्मेतपर्वतः ||९|| [ अनुष्टुभ् ]
वाचनाचार्यवर्यस्य, रामचन्द्रजितः सदा ।
शिष्यज्ञो मेदचन्द्रेण श्रीसङ्गेण समं मुदा ||१०||
Jain Education International
2
For Personal & Private Use Only
www.jainelibrary.org