________________
परिशिष्ट - 'क' • २३१ ४. कोटारामपूरमण्डनश्रीचन्द्रप्रभजिनाष्टकम् ॥ सुमेरुसन्मौलिकृताभिषेककं, देवाधिदेवं गतकल्मषं सदा । सुभूरिभक्त्या विहितार्यपूजनं', चन्द्रप्रभं नौमि जिनं सनातनम् ॥१॥ [उपजाति:] अज्ञानसुप्तेषु जनेषु पूषणं, कन्दर्पदावानलशान्तिकारिणम् । अनिष्टकर्मारिविनाशकारकं, चन्द्रप्रभं नौमि जिनं सनातनम् ॥२॥ सच्चैत्रमासे सितपञ्चमीतिथौ, सुवैजयन्ताच्च्युतमायुषः क्षये। सुलक्ष्मणाऽपत्यमनन्ततेजसं, चन्द्रप्रभं नौमि जिनं सनातनम् ॥३॥ सुपोषमासे सितपक्षके मुदा, सद्द्वादशीकृष्णतिथिप्रसूतिकम् । चन्द्रावतीस्वामिमहेशनन्दनं, चन्द्रप्रभं नौमि जिनं सनातनम् ॥४॥ त्रयोदशीकृष्णदले मनोहरे पौषस्य सञ्जातयमाभिलाषकम् । सन्त्यक्तराज्यादिपदार्थमण्डलं, चन्द्रप्रभ नौमि जिनं सनातनम् ॥५॥ शुक्लेतरायां शुभसप्तमीतिथावनुत्तरे फाल्गुनमासि सत्तमे । सञ्जातसर्वोत्तमकेवलं वरं, चन्द्रप्रभं नौमि जिनं सनातनम् ॥६॥ वरेण्यभाद्रस्य च सप्तमीतिथौ, सितेतरायां वृतमोक्षसत्पदम् । ज्ञानत्रयीरूपमनन्तकेवलं, चन्द्रप्रभं नौमि जिनं सनातनम् ॥७॥ अखण्डकान्तिं गतमोहबन्धनं, निरामयं निर्जितकर्मपेटकम् । अनन्तरूपं गतभावबन्धनं, चन्द्रप्रभं नौमि जिनं सनातनम् ॥८॥ वेदाब्धि-वसु-सिध्यब्दे, वैशाखें मासि शोभने । शुक्लाष्टम्यां गुरौ वारे, पुष्यनक्षत्रसंयुते ॥९॥ [अनुष्टुभ्] कोटारामपूरे वर्ये, चन्द्रप्रभजिनाधिपः । वाचनाचार्यवर्यस्य, रामचन्द्रगणीशितुः ॥१०॥ आनन्दवल्लभेनाऽयं, शिष्येणात्महितेच्छया। जिनालयप्रतिष्ठायां, संस्तुतो जिननायकः ॥११।।
४७
१. 'विहितोपहारं' इत्यपि पाठः प्रतौ अस्ति ।
२. सञ्जाता यमस्य-संयमस्य-चारित्रस्य अभिलाषा यस्य सः सञ्जातयमाभिलाषक: तम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org