________________
२) आनन्दवल्लभानां कृतयः ॥ १. षीचुन्दजिनाधिपतिस्तवनम् ॥
शङ्के नृलोकं कलिभीमसिन्धोरुद्धर्त्तुकामः प्रकटीबभूव ।
यो विश्वमानं मुनिसेवितं तं वन्दे चतुष्यष्टिजिनं मुदाऽहम् ॥१॥ [उपजातिः] वराङ्गनागानसमूहयुक्तं, दशाङ्गधूपार्पणचारुभक्तिम् । .... सद्गन्धपुष्पार्चितपादपद्मं, वन्दे चतुष्यष्टिजिनं मुदाऽहम् ॥२॥
सुश्रीकटीपालिसुदीप्तिमन्तं, नवीनपक्वान्नकृतोपहारम् । विन्यस्तमुक्ताफलस्वस्तिकाग्रं वन्दे चतुष्यष्टिजिनं मुदाऽहम् ||३|| तिर्थोदकव्यूहनिषिक्तगात्रं, सुगन्धिवासादिविलिप्तदेहम् । सुनालिकेरादिफलार्चनीयं, वन्दे चतुष्यष्टिजिनं मुदाऽहम् ||४|| यस्याग्रतो देवनरेन्द्रसङ्घाः, कुर्वन्ति भक्त्या परया सहर्षम् । आरात्रिकां तं भवनाशदक्षं, वन्दे चतुष्यष्टिजिनं मुदाऽहम् ||५|| इत्यष्टभेदां बुधवृन्दमान्यां, भव्याश्रितां मोक्षपथानुकूलाम् । सुद्रव्यपूजां लभमानमार्यं, वन्दे चतुष्यष्टिजिनं मुदाऽहम् ॥६॥ गजादिभीनाशकरं सदैव, सर्वार्थदानैकसुरद्रुकल्पम् । आधिप्रणाशे सुधियांसुरत्नं, वन्दे चतुष्यष्टिजिनं मुदाऽहम् ||७|| षीचन्दसुस्थानविराजमानं, गवाक्षजालान्वितमन्दिरस्थम् । सज्ज्ञानयोगीश्वरयातपारं वन्दे चतुष्यष्टिजिनं मुदाऽहम् ||८|| चतुर्णिकायाधिपसेवनीयं, विद्याधरेन्द्रार्जितहृद्यसेवम् । अतीन्द्रियं शान्तिकरं जनानां वन्दे चतुष्यष्टिजिनं मुदाऽहम् ॥९॥ निधि-कायाष्ट-सिध्यब्दे, आषाढ माससश्रमे ।
तृतीयाकर्मवाट्यां च चतुष्यष्टिजिनाधिपः ||१०|| [ अनुष्टुभ् ] विदुषो रामचन्द्रस्य, विनेयेन हितैषिणा । आनन्दवल्लभेनाऽसावनावि स्तोत्रतो मुदा ॥ ११ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org