________________
परिशिष्ट - 'क' • २२७ गौर्यस्यैकाप्यचिन्त्यप्रसृमरमहिमा गोतमानामवाप्याऽऽश्लेषं प्रासूत तास्ता: समसमयमहो ! विश्वकुक्षिम्भरीर्गाः । पायं पायं व्यपायं मधुमधुररसान् भव्यजीवा यदीयांस्तापं निर्वापयन्ते भवदवथुभवं स श्रिये वर्द्धमानः ॥२०॥ व्यापी लोकाग्रगोऽपि प्रतिसमयजनि-ध्वंसवान् शाश्वतोऽपि, ज्योतीरूपोप्परूपो व्यपगतकलुष-ध्यानगम्योप्यगम्यः । सङ्ख्यावानप्यसङ्ख्यः सकलगुणमयोऽप्यग्रणीनिर्गुणानां, श्रेयः स्याद्वादरूपः प्रथयतु भगवांस्त्रैशलेयः प्रजानाम् ॥२१॥ लक्ष्मी वीरः स दिशतु सतां यत्पदौ वन्दमानाः, सङ्क्रामन्तः क्रमनखमणीदर्पणान्तर्भवेयुः । लोको एकादशतनुधरा ईश्वरा एव सर्वे, नित्यं मृत्युञ्जयपदभृतः श्रीशिवाश्लेषभाजः ॥२२॥ [मन्दाक्रान्ता] श्रीमान् योगधुरन्धरस्थितिधरः सन्नन्दनश्रीभरः, सौवर्णद्युतिभासुरः प्रतिदिनं मध्यस्थतासुन्दरः । ज्योतिश्चक्रधरः सुपर्वनिकरस्थानं श्रियां सङ्करः, कुर्यान्मन्दरसोदरः शिवसुखं श्रीवीरतीर्थङ्करः ॥२३॥ [शार्दूलविक्रीडितम्] देवः सेवकवत्सलस्तनुमतां दत्तां प्रमत्तांऽऽतराऽऽरातिस्फातिभरप्रपातिजनतात्राता स वीरः श्रियम् । चित्रं यस्य कपोलयोः प्रतिफलद् वीक्ष्य स्वचक्षुर्जना, भृङ्गभ्रान्तिभृतश्चरीक्रति मुहुश्चेलाञ्चलैर्वीजनम् ॥२४॥ श्रीसिद्धार्थनरेशवंशकमलाशृङ्गारचुडामणिद्र्छन्मोहमहान्धकारहरणप्राभातिकाहर्मणिः । एवं किञ्चिदपि स्तुतस्तनुधिया श्रीवर्धमानो मया, स्ताल्लब्धोदयसोमसुन्दरगुरुश्री-ही-धृति-स्फीतये ॥२५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org