________________
२२६ •
श्रीनेमिनाथस्तोत्रसंङ्ग्रहः
उत्पत्ति-स्थिति-संहृति त्रयपदप्रस्तावकः स त्रयीमूर्तिः शम्भुरिव श्रियेऽस्तु भगवान् श्रीवर्धमानः प्रभुः ॥१३॥ यद्वेदज्ञैर्न भिन्नं न हि सुरगुरुणा नो सहस्राक्षलक्षैर्नापि श्रीभारती ये महसि च हसिताऽऽदित्यकान्तौ विलीनम् । तद्भिन्दानः सभायामसुर- सुर-नराधीश्वराणां समक्षं, सन्देहध्वान्तजातं सकलगणभृतां सोऽस्तु वीरः शिवाय ॥१४॥ [स्रग्धरा ] नित्यं यो जागरूकप्रकृतिरविकृतिर्दग्धकन्दर्पहव्यो, जात्यस्वर्णाङ्गवर्णो दुरितभरहरः स्वर्गसौख्यस्य दाता । वाक्-चेत:-कायकुण्डत्रय इह निहितो वेदविद्या विधिज्ञैर्भक्त्या संसेव्यमानो वितरतु स शिवं श्रीमहावीरदेवः ||१५|| श्रीमद् वीरस्य वाणी द्व्यधिकदशभिदां पर्षदां हर्षदात्री, दात्री सन्देहपङ्क्तेः समसमयमहो ! भुर्भुव: स्वर्जनानाम् । संसारापारपाथःपतिपतितजनोत्तारणे यानपात्री
भूता भूतावलीनां दिशतु शिवरमाः सारमाधुर्यपात्री ॥१६॥ गामेकां त्रिपदीं भजद्विजवरव्राताय गाढार्थिने,
यो दत्ते स्म परः सहस्रगणना गा बिभ्रदप्यन्वहम् ।
दातॄणां प्रथमस्तथापि कुतुकं जेगीय्यते योगिभिः,
स श्रीमान् भुवनातिशायिचरितः श्रीवर्द्धमानः श्रिये ॥ १७ ॥ [ शार्दूलविक्रीडितम् ]
प्राग्भारैर्भगवान् गवां प्रसृमरैर्मोहान्धकारोच्चयप्रध्वंसं रचयश्च यः कुवलयप्रोल्लासमापादयन् । पापव्यापविपाकतप्ततनुभृत्सन्तापनिर्वापणः,
.
श्रीवीरो जिनचन्द्रमाः सुमनसां देयाददेयारमाः ॥१८॥ यस्यैव द्वादशाङ्गात् त्रिदशतरुवनात् सूक्तिपुष्पैर्गृहितैग्रन्थं ग्रन्थं स्वबुध्या बहुविधरचना ग्रन्थमाला विशालाः । मालाकारा इवापुः सकलमतगता ग्रन्थकाराः प्रसिद्धि, स श्रेयस्त्रैलेयः प्रथयतु भुवनध्येयसन्नामधेयः ॥१९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org