SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - 'क' • २२९ २. श्रीशत्रुञ्जयतीर्थाष्टकम् ॥ जगामयं श्रीवीरनाभिनन्दनोऽप्यनैकशः पुष्कलसाधुसंयुतः । अनन्तसज्ज्ञानधरो युगेशः, शत्रुञ्जयं तं प्रणमामि भक्तितः ॥ १॥ [ उपजाति: ] गणाधिपश्शोभनपुण्डरीकको, वव्रे च यस्मिन् शिवसौख्यसम्पदम् । लसन्मुनीनामिषुकोटिभिस्समं, शत्रुञ्जयं तं प्रणमामि भक्तितः ॥२॥ मुनीश्वराः शैलक- पन्थकादयः, सुलेभिरे यत्र सुखावहं शिवम् । दुर्भेद्यकर्मारिविनाशनक्षमं, शत्रुञ्जयं तं प्रणमामि भक्तितः ॥३॥ अनेकयुद्धार्जितपापकर्मकाः, श्रीपाण्डुपुत्रा गतकल्मषा मुदा । ययुः पदं यत्र सुखैकभाजनं, शत्रुञ्जयं तं प्रणमामि भक्तित: ||४|| इक्ष्वाकुवंशे भरताख्यभूपतेः, पट्टे च वव्रुर्मुनयो हि यन्नगे । असङ्ख्यकाः सिद्धिवधूं मनोहरां, शत्रुञ्जयं तं प्रणमामि भक्तितः ॥५॥ स्वयं त्रयोविंशतितीर्थनायकाः, विना च नेमिं सुखधाम्नि वव्रजुः । यत्राऽचले देवनरेन्द्रसेवितं, शत्रुञ्जयं तं प्रणमामि भक्तितः ॥६॥ विद्याधरैश्वर्यधरा मुनीश्वरा, नम्यादयो यत्र सुखेन वव्रजुः । सुरा - ऽसुराधीशनिषेव्यमुत्तमं शत्रुञ्जयं तं प्रणमामि भक्तितः ॥७॥ चक्रेश्वरी - गोमुखयक्षसेवितः, शिवैकमार्गे गिरिराजशेखरः । योभूत् सदा भव्यहिताय नामतः, शत्रुञ्जयं तं प्रणमामि भक्तितः ॥८॥ ६ २ रस-द्विकाऽष्ट-सिध्यब्दे, राधमासे सिते दले । द्वितीयाकर्मवाट्यांच, नुनाव प्रथमो जिनः ॥९॥ [ अनुष्टुभ् ] कवेः श्रीरामचन्द्रस्य, शिष्येणाऽत्महितेच्छुना । आनन्दवल्लभेनाऽसौ श्रीसङ्गेन समं मुदा ॥ १० ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy