________________
परिशिष्ट - 'क' • २२३ नम्राऽनेकसुरासुराधिपनृणां यस्सेव नाकारिणां, चापल्य-प्लवगीसमानकमलास्वैरित्वविच्छित्तये । एता आयसश्रृङ्खला इव फणा यस्य प्रभो रेजिरे, प्रेष्यत्वप्रतिपन्नपन्नगपतिः पार्श्वः स वस्त्रायताम् ॥१९॥ एताः सप्तनयश्रियां मणिसुमश्रेणीभिरुद्भासिताः, क्रीडाकल्पलता इवोरगफणाः सप्ताऽपि यस्याबभुः । सप्तद्वीपधरानरावलिमनोऽभीष्टार्थसार्थप्रदाः, श्रीवामातनयो नयोज्वलपथं स प्रापयत्वङ्गिनः ॥२०॥ विश्वेऽत्र सप्तव्यसनोदयश्रियां, व्याषेधनार्थं किल धूमकेतवः । अमी समीहां भविनां परीप्रतु, श्रीपार्श्वनाथस्य फणाः स्फुरद्गुणाः ॥२१॥ [उप०] सरभसपरिरम्भोत्कण्ठया सिद्धिवध्वा, . निजगृहनयनार्थं रज्जवोऽमी विमुक्ताः । किमिति हृदि विकल्पा भाविनां सन्दधाना, ददतु शिवसुखं वः पार्श्वभर्तुः फणास्ते ॥२२॥ [मालिनी] उद्दामस्थामधामक्रमकमलनमत्सर्वगीर्वाणवृन्दः, कामान् वामाङ्गजन्मा स सृजतु सफलान् भाविनां भूर्भुवःस्वः । यन्माहात्म्यं महेभ्यं वणिज इव सदैवोपजीव्योपजीव्य, प्राप्ताः ख्याति धुकुम्भ-घुमणि-सुरतरु-स्वर्गवी-स्वर्गताढ्यः ॥२३॥ [स्रग्धरा] प्रथयतु धरणोरगेन्द्रलक्ष्म्या जिनपतिरेष विशेषमुखीर्वः । यदमलनखमण्डली विरेजे तम इह हर्तुमिव प्रदाय पङ्कितम् ॥२४॥ [पुष्पिताग्रा] . उत्प्रेक्षोपमिति प्रवर्तितफणास्तोत्रप्रणीताध्वना, श्रीपार्श्वः कथमप्यहो ! क्षणमसौ नीतः स्वचित्तं मया । मिथ्यानेकविकल्पजालजनितं निर्माश्य घोरं तमः, कुर्यान् मे गुरुसोमसुन्दरवरस्वात्मावबोधं महः ॥२५॥ [शार्दूलविक्रीडितम्]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org