________________
२१८ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः स्मरे ध्वस्ते रत्या निजतनुलतातः परिहताः, सुवर्णालङ्कारा इव नवमणिश्रेणिरुचिराः ॥११॥ स वः शान्तिः शान्तं सृजतु भवतां येन सहसा, बहिश्चक्रे नित्यं स्वहृदयपथाद् राजसगुणः । ततो देहोद्गच्छद्युतिततिपरीवेषमिषतः, स ईप्सुः स्वस्थानं किमनुनयनायाऽऽगत इह ॥१२॥ सहेलं खेलन्त्या धृतिललनया येन युतया, . विकीर्णोऽयं वासः सघुसृणलवश्चान्दन इव । समन्तात् सर्पन् यत् तनुरुचिभरो राजतितरां, तरांसि द्विष्टानां क्षपयतु स शान्तिजिनपतिः ॥१३॥ . श्रिये स श्रीशान्तिः प्रणमदमरीभिः प्रगुणितैः, कटाक्षाणां लक्षैः स्तबकितमिदं यद्वपुरभूत् । जनुः स्नात्रारम्भे कनककमलभ्रान्तिविवशैदलन्नीलीनीलैर्धमरपटलैराश्रितमिव ॥१४॥ यदीयाङ्गोद्गच्छत्किरणपटलैः स्वर्णविमलैद्विजश्रेणी-चक्षुः-करतल-नखाऽभीशुशबलैः । नभोभित्तौ चित्रं कृतमिव शिवश्रीरतिकृते । प्रभुः स श्रीशान्तिर्भवतु भवतां भ्रान्तिहतये ॥१५॥ जनानामानन्दं नयनयुगयोः स्वर्णविशदः, करोतु श्रीशान्तेस्त्रिभुवनपतेः कान्तिनिकरः । सितध्यानेणाक्ष्याः सरभसपरीरम्भसमये, विलग्नः काश्मीरद्रव इव तदङ्गाद् विलुलितः ॥१६॥ स्वगन्धं कस्तूरी वितरतितरां यद्यनुपमं, मृदुत्वं चाऽम्भोजं विधुरपि तदाह्लादकगुणम् । तदा जात्यस्वर्णं भवति सदृशं यस्य वपुषः, स देवो देवानां विरचयतु शान्तिः शिवसुखम् ॥१७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org