________________
परिशिष्ट - 'क' • २१७
स वः शान्तेः कान्तिव्रज उरुरजस्तक्षतुतमां, तमांसि च्छिन्दानः कनककमलच्छेदकपिशः । सरोजानां राज्या निरुपमसुखश्रीविजितया, पदे दण्डस्याऽयं कृत इव परागः स्वविभवः ॥५॥ त्वया छिन्ना दोषास्त्रिभुवनमनोदाहजनना, ममाप्येतांश्छिन्द्या इति भजति यं दीपकततिः । निजं तेजःपुञ्जं पुरत उपदीकृत्य सहजं, मिषाद् यत् कान्तीनां प्रथयतु स शान्तिः सुखमतीः ||६|| स शान्तिः सन्तापं हरतु भविनां शान्तिनिलयो, विरेजुर्यद्देहप्रभवरुचयः स्वर्णशुचयः । वपुभित्त्वा ध्यानानलविमलकीला इव बहि:, समुल्लासं प्राप्ता दिनकरमहो ! जेतुमनसः ||७|| अभीप्सुः सौरभ्यं निजवपुषि गाङ्गेयनिकरः, स सेवाहेवाकी सनृति वसतिं यस्य सविधे । पिशङ्गाङ्गव्याजादिव सुदिवसं वः प्रथयताद्यतात्मा श्रीशान्तिः स भुवनजनाभीष्टफलदः ॥८॥ रुचिः शान्तेर्व्याख्यासदसि वपुषः स्वर्णरुचिरा, समन्तात् दन्तांशप्रकरखचिता नेयमपि तु । असौ श्वेताम्भोजा तदुरुरजसा पीतसलिला, जिता पावित्र्येण त्रिदशतटिनी संश्रितवती ॥९॥ अयं मोक्षोपायं प्रथयतु सतां शान्तिवपुषः, स्फुरज्ज्योतिःपुरो दृगधररदांशुस्तबकितः । दृढस्नेहावेशात् सरभसमिलज्ज्ञानललना, वपुर्लग्नश्चीनांशुकपट इवाऽनेकरचनः ॥१०॥ विराजन्ते शान्तेर्दिशि दिशि वपुः कान्तिनिकरा, नखज्योतिर्जालस्तबकखचिताः सृत्वरतराः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org