________________
२१६ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः श्रीमद्धर्मनरेश्वरः सृजति किं यद्देहगेहाङ्गणे, भावद्वेषिभटानतीवविकान् जेतुं कृपाणीश्रमम् । लोलन्नीलजटाघटातिकपटाद् देवः स वः प्रार्थितं, नित्यानन्दपदप्रदः प्रददतां श्रीमान् युगादीश्वरः ॥२३॥ एवं श्रीगुरुसोमसुन्दरयशः प्राग्भारगौरस्फुरत्, कान्तिस्मेरितविष्टपत्रय ! नयश्रीकेलिलीलालय। भक्तिव्यक्तितरङ्गरङ्गिमनसा स्वामिन् ! मयाऽसि स्तुतः, श्रीनाभेयविभो ! प्रसीद भगवन् ! बोधिप्रदानेन मे ॥२४॥
२. श्रीशान्तिकान्तिस्तवः ॥ नवज्योतिः स्फातिः सकलकमलाकेलिसदनं, कलालीलाशाली पृथुतमतमःस्तोमशमनः । मृगाङ्कः श्रीशान्तिः कुवलयसमुल्लासनपरः, ' स्फुरत्कल्लोलं मे रचयतु स वाग्ब्रह्मजलधिः ॥१॥ [शिखरिणी] कलङ्क नो धत्ते न च भजति दोषोदयमयं, न चाप्नोति भ्रान्ति कलयति कलानां न विलयम् । अताड्यं नो जाड्यं प्रथयति न वाप्यस्तसमयं, नवीनः श्रीशान्तिहरतु मृगलक्ष्मा भवभयम् ॥२॥ जगन्नाथ: पाथःपतिवदतिगम्भीरहदयो, दयोल्लासात् पूर्वं स्वतनुपिशितैः सात्विकपतिः । ररक्ष श्येनाद् यो भयविधुरपारापतमसौ, जिनः शान्तिः पायाद् भव-भवभयाद् भक्तभविनः ॥३॥ यदीयाङ्गाच्छङ्गाद् दिशि-दिशि पिशङ्गद्युतिरियं, वियत् सर्वं व्यापाऽप्रतिहतगतिः खेलतितमाम् । दृढस्पर्धाबन्धादि भगवतो ज्ञानमहसः, स शान्ति श्रान्ति वो भववनभवामुद्विदलतात् ॥४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org