________________
२१० • श्रीनेमिनाथस्तोत्रसङ्ग्रहः कोहंडिखंडियतित्थदुत्थ ! गयतण्ह ! कण्हपणयपओ ! । सामण्णमसामण्णं वाससएसत्त कासि तुमं ॥११॥
हे कूष्माण्डीखण्डिततीर्थदौःस्थ्य ! तत्र कूष्माण्डी-अम्बिका तया, एतदुपलक्षणाद्गौमेधयक्षेण च खण्डितानि तीर्थस्य-शासनस्य चतुर्वर्णश्रीसंघस्य चास्य दौःस्थ्यानि यस्य स तथा तत् सम्बोधनं तदुक्तं । श्रीनेमितीर्थे गौमेधो यक्षश्चास्य नृवाहन: त्रीन् दक्षिणान् मातुलिङ्ग-पशुचक्रधरान् करान् वामांस्तु नकुल-त्रिशूल-शक्तिर्युतान् दधत्, श्यामो । अम्बिकाऽऽम्रलुम्बी-पाशाऽऽलम्बिदक्षिणदोया सपुत्राऽङ्कुशभृद्वामदोर्द्वया, सिंहवाहना, सुवर्णवर्णा, श्रीनेमितीर्थे शासनदेवता । इति पुरुषस्य प्रधानत्वेऽपि सूत्रे गोमेधयक्षमुपेक्ष्य श्रीअम्बिकायक्षिण्या ग्रहणं तस्याः प्रसिद्धि-प्रभावापेक्षं इति । हे गततृष्ण ! तत्र गता-व्यपगता तृष्णालोभपरिणामो यस्मादसौ गततृष्णस्तत्सम्बोधनम् । त्वं कृष्णप्रणतपदः सन् असामान्यं निरूपमं श्रामण्यं-श्रमणधर्मं सप्तवर्षशतान् अकार्षीरिति गाथार्थः ॥११॥
કુષ્માંડક દેવતાયઈ ખંત્ર તીર્થનઉ દુખ, ગઈ તૃષ્ણા યેહની, કૃષ્ણિ પ્રણમ્યા પદકમલ યેહને, ચારિત્ર નિરૂપમ વરસ સાતસઈ સીમ કરત હુઉ તૂ સ્વામી. ૧૧ अथ भगवत्साधुसङ्घस्य लब्धिविशेषज्ञापनपूर्वं सङ्ख्यां वदन्ति
मणनाणि सहस्समणुत्तरोववाईण सोलसयाणि । चउदसपुव्वीण सया चउरो दुगुणा य वाईणं ॥१२॥ पण्णर सया वेउव्वि-ओहि-केवलिजिणाण पत्तेयं । परिवारो तुह तं पण्णवेसि धम्मं चउज्जामं ॥१३॥
मनःपर्यायज्ञानिनां-सम्पूर्णे मनुष्यक्षेत्रे व्यवस्थितानां संज्ञिनां मनोवर्तिसर्वविशेषोपेतवस्तुग्राहिणां सहस्रम् । अनुत्तरोपपातिनां षोडशशतानि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org