________________
नेमिनाथचरित्रम् • २११ तत्रानुत्तरविमानेषूपपत्तिरुत्पत्तिर्येषां ते तथा तेषां, ते चाऽऽगामिभवभाविसिद्धिगतयो ज्ञेयाः । चतुर्दशपूर्वाणि विद्यन्ते येषां ते चतुर्दशपूर्विणस्तेषां चतुर्दशपूर्विणांश्रुतकेवलिनां चत्वारि शतानि । द्विगुणानि चत्वारिशतानि अष्टौ शतानीत्यर्थः वादिनां वादलब्धिसम्पन्नानाम् ॥१२॥
प्रत्येकपञ्चदशशतानि केषां वैक्रियलब्धिवदवधिज्ञानिकेवलिजिनानां परिवारस्तव आसीदित्यध्याहारः । त्वं प्रज्ञापयस्युपदिशसि धर्मं चतुर्यामचत्वारो यामा-व्रतानि यत्र तत् तथा अब्रह्मणः परिग्रहान्तर्गतत्वेन भणनाच्चतुःसङ्ख्या त्वमिति गाथायुगलार्थः ॥१३।। મન:પર્યાયજાની ૧ સહસ, અનુત્તરોઅપાતી સોલહસય સાધુ હૂઆ, 46६५२वी साधु सऽ थ्यारि, बिभ॥ = ८00 वाही साधु छूमा. १२ પનરહ સય વૈક્રિય લબધિમંત, અવધિન્યાની, કેવલજાની સાધુ પ્રત્યેક પરિવાર તાહરઉ ફૂલ, તું ઉપદિસતી હૂઉ ધર્મ ઐરિ મહાવ્રતરૂપ ૧૩ अथापश्चिमं सिद्धिगमनलक्षणं कल्याणकं भणन्ति
छत्तीसुत्तरपंचसयसाहुसहिओ, सहस्स वरिसाओ । कल्लाणगपणगच्चियचित्तानक्खत्त नेसज्जी ॥१४॥ . मासियभत्तेण तुमं आसाढसियअट्ठमीए रयणीए । उज्जिते जिण वल्लह सिद्धिसुहं पत्त कुणसु सिवं ॥१५॥
षट्त्रिंशता उत्तराणि अधिकानि पञ्चशतानि (५३६) साधवस्तैः सहितोयुक्तः । तथा सहस्रं वर्षाणि सर्वायुर्यस्य सः सहस्रवर्षायुः । तथा कल्याणकानां पञ्चकेनाचितं अर्च पूजायां-मानण् पूजायामिति धातुपाठात् [ ] पूजितं-मानितं चित्रानक्षत्रं येन स तथा तत्सम्बोधनम् । तथा निषण्णः पर्यंकासनस्थ: पद्मासनोपविष्ट इति यावत्। त्वं मासिकभक्तेन आषाढशुक्लाष्टम्यां रजन्यां उज्जयन्ते-रैवतकगिरौ हे जिन ! हे वल्लभ !-मम सर्वाधिकप्रिय, हे सिद्धिसुखं प्राप्त !, यद्वा हे वल्लभसिद्धिसुखं प्राप्त ! इत्येकं विशेषणं, हे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org