SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ नेमिजिनस्तुतिः • २०३ इति स्तुतः श्रीगिरिनारमण्डनः, संसेव्यमानोऽम्बिकया निरन्तरम् । नेमीश्वरः स्तात् सततं सदङ्गिनां, चतुर्गतिभ्रान्तिहर: शिवङ्करः ॥९॥ [उपजातिः] इति स्तुत इति - इति परिसमाप्तौ, इत्थं वा अमुना प्रकारेण, श्रीगिरिनारमण्डनोऽम्बिकया देव्या निरन्तरं संसेव्यमानो यो नेमीश्वरो भगवान् मया स्तुतः स्तुतिं कृतवान्, स एव नेमीश्वरो द्वाविंशतितमजिननायकः सततं-निरन्तरं सदङ्गिनां भव्यप्रपाणिनां चतुर्गतिभ्रान्तिहर अत एव शिवङ्करः स्तात्-भवतु इत्यन्वयः ॥९॥ कृपालुविपश्चिद्भिः संशोध्यमेतत् । विद्वद्जनसङ्कीर्णेऽमृतचन्द्रसूरिसन्निधौ रचितः । जाग्रत्प्रभावजनिते, नेमीश्वरे मे मतिर्भूयात् ॥१॥ त्रि-नेत्रा-ऽङ्क-विधुमितेऽब्दे कार्तिकमासस्य पूर्णिमासुतिथौ । बालूचरे पुरवरे, प्रकाशो रामचन्द्रर्षिणा ॥२॥ युग्ममिदम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy