SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २०२ . श्रीनेमिनाथस्तोत्रसङ्ग्रहः त्वत्किङ्करमवगत्य सत्यसुखसावधि, प्रतिजनि मे निजमेव देव ! दिश सन्निधिम् ॥७॥ विश्वजनीनेति - अथ इत्यनन्तरं हे विश्वजनीन ! - हे विश्वजनहितकारक ! सदीनमितं सदीनतागुणयुतं निजदृक्-सृतिं त्वदृष्टिपथप्राप्त मामवमान्याऽवगणयित्वा यशसा उन्नति लोके प्रसिद्धतां त्वं कथं भजे: कथं प्राप्नुहि ? ____ अथ हे देव ! मां त्वत्किङ्करं दासरूपमवगत्य - भवान् ज्ञात्वा, प्रतिजनि अत्राऽव्ययीभावत्वाद्विभक्तेर्लुक् बोध्यः, मुक्तिपदप्राप्तिपर्यन्तरूपे भवे भवे मे-मम मह्यं वा निजमेव-स्वकीयमेव सन्निधिं समीपतारूपं सम्यक्त्वरूपरत्नं वा त्वं दिश-देहि इत्यन्वयः ॥७॥ भूरिजनो यदरक्षि भवान् निजसदृशा, सम्प्रति मेऽप्यनुप्रेक्ष्य विभो ! भव नबयशाः । किं बहुयाचनयाऽथ नाथ ! तव पार्श्वतः, स्वीयचरणशरणैकगतं कुरु मामवतः (मतः) ॥८॥ भूरिजनो यदेति - हे विभो ! – हे विश्वव्यापक ! निजसदृशा निजसमीचीनदृष्ट्या स्वकीयसद्दर्शनेन इति यावत्, भवात्-संसारात् भूरिजनो यद् भवता अरक्षि-रक्षां कृतवान् । संप्रति-इदानीं मे मह्यं मम वा, अनुप्रेक्ष्य इति ईक्षदर्शनाङ्कनयोरस्माद्धातोः क्त्वास्थाने क्त्वो ल्यबिति सूत्रेण ल्यपि कृते यथेष्टरूपसिद्धिः, स्वीयसदर्शनं दत्त्वा त्वं नवयशा भव नूतनयशोयुक्तस्त्वं स्या इति कर्तुर्हार्दम् । ___ अथेत्यनन्तरं हे नाथ ! अतः परं तव पार्श्वतः बहुयाचनया किं - पर्याप्त सृतमिति किमित्यसा[व]र्थः ? स्वीयचरणयोः शरणैकगतं-शरणैकतारूपं मां त्वं कुरु, भवे भवे मम तव चरणयोरेव शरणमस्तु इत्यन्वयः ॥८॥ छन्दस्तु सममात्राख्यम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy