________________
१९८ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः इन्द्रसामानिकसुरो ग्राह्यः, शेषं तथैव । एतत् सर्वमितिहासादौ प्रसिद्धमेव । तत्सम्बोधने-हे सावभाव-योगीन्द्रसहोलवजितहरे ! इति ॥१॥ .
जय जय जनदुर्वारमारमदगिरिपवे !, सजलजलदशितिवर्णसवर्णतनुच्छवे ! । जय जय जगति प्रमदकुमुदहिमदीधिते !, करुणारसकूपारविमोचितपशुसिते ! ॥२॥
जय जय जनदुवरिति - जनैर्दुःखेन वार्यते इति जनदुर्वारः, स एव मारस्याऽनङ्गस्य मदोऽहंकारः, स एव 'गिरिः-पर्वतस्तस्य तत्र वा समूलोन्मूलने पविवि पविर्वज्र इव वज्रो यः सः । 'हादिनी वज्रमस्री स्यात् कुलिशं भिदुरं पवि'रित्यमरः । तस्य सम्बोधने-हे जनदुर्वारमारमदगिरिपवे ! त्वं जय । यद्वा मारश्च मदश्चेति द्वन्द्वे कृते पश्चात् बहुव्रीहिरित्यपि साधु । ___ सजलो जलयुक्तो यो जलदो-मेघस्तस्य यो शितिवर्ण:-कृष्णवर्णस्तत्सवर्णा तुल्या तनोः शरीर स्य]च्छविधुतिर्यस्य सः, तस्य सम्बोधनेहे सजलदशितिवर्णसवर्णतनुच्छवे ! ।
जगति-संसारे प्रमदो य: सौरभ्यगुणविशिष्टः, कुमुदं सितकमलं कुमुदिनीरूपं वा तद्विकाशने, हिमा दीधितिर्यस्य स हिमदीधितिश्चन्द्रश्चन्द्र इव चन्द्रो यः सः । यथा गगनस्थचन्द्रः कमल(कुमुद)वनं प्रकाशयति तथा त्वं तु भविकमल(कुमुद)प्रतिबोधकत्वेनाऽपूर्वचन्द्रोऽसि । 'जगति'पदे हलदन्तादितिसूत्रेण समासे, सप्तम्या अलुक्, तस्य सम्बोधने-हे जगतिप्रमदकुमुदहिमदीधिते ! त्वं जय।
कुं पृथ्वी पिपति-पालयति इति विग्रहे पृ पालनपूरणयोरस्मात्कर्मण्युपपदेऽण, अन्येषामपीति दीर्घ कूपारशब्दो लाक्षणिकस्तेनाऽत्र गृहीतो मेघ इति करुणारूप एव रसो जलं तस्य यः कूपारो मेघस्तेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org