________________
नेमिजिनस्तुतिः • १९९ करुणाईचेतोभावेन तस्माद् वा विमोचिता दूरीकृता परिणयनसमये पशूनां सितिर्बन्धनता येन सः । यद्वा करुणारसः कूप इव कूपो गाम्भीर्यादिना गुणेन तमति प्राप्नोति यः स करुणारसकूपारो गम्भीरतादिगुणयुक्तः सन्, शेषं पूर्ववदेव । अत्रापि कू गतौ, ततोऽणि यथेष्टसिद्धिः । सिंधौपृषोदराधाकृतिगणत्वादकारलोपे कथञ्चिद् रूपसिद्धिरिति । तस्य सम्बोधने-हे करुणारसकूपारविमोचितपशुसिते ! । षिञ् बन्धने ततः स्त्रियां भावे क्तिस्तेन सितिशब्दो निष्पन्न इति ।।२।
जय जय स त्वमुदूटिधियाऽऽतुरता सती, त्यक्ता येन विरागवता राजीमती । जय जय निर्गतदोषकोषनिजगुणतते !, सकलसुरासुरराजरचितसार्चानते ! ॥३॥
जय जय स त्वमिति । उदूटिरूपा धीस्तया आतुरता-व्याकुलीभूता सती राजीमती येन विरागवता त्वया त्यक्ता स त्वं जय इत्यन्वयः । ___निर्गतो दोषकोषो-दोषसमूहो यस्या निजगुणततेरात्मिकगुणविस्तारात् यस्य स यद्वा निर्गता-प्राप्ता दोषकोशात् अनादिकालीनमिथ्यात्वादि(दे)निजगुणानां ततिः-श्रेणिर्येन सः, तस्य सम्बोधने-हे निर्गतदोषकोषनिजगुणतते ! त्वं जय । ये गत्यर्थास्ते प्राप्त्यर्था इति वैयाकरणानां सिद्धान्तः ।
सकलसुराऽसुरराजभिः रचिता-कृता अर्चासहिता नतिर्यस्य सः, तत्सम्बोधने-हे सकलसुरासुरराजरचितसार्चानते ! ॥३||
जय जय शमदमलीनपीनसमतारते ! भुवनविभूषणवर्णवर्णवारिजगते ! जय जय कुमतिकुवाटनिशाटनिशान्तकृद् !, वाग्द्युतिदर्शितभुवनभावपथपीथवद् ॥४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org