________________
नेमिजिनस्तुतिः • १९७ त्वं जय त्वं जय सर्वोत्कर्षेण जेतृत्वगुणविशिष्टो भव । क्रियासमभिहारेऽत्र द्विर्वचनं, लोडन्तपदमेतत् । यदोरपत्यानि यादवास्तेषां वंशो हरिवंश इति । यद्वा यदोरयम्, इदमर्थोऽण, यादवः, स चाऽसौ वंशश्चेति कर्मधारयः । यदुराज्ञः प्रादुर्भूता यादववंशस्य ख्यातिलॊके इति । तस्य तस्मिन् वाऽवतंस:शेखरो चूडामणिः शिरोभूषणविशेष इव प्रकटीभूतो जगतां पतिर्यः स । तस्य सम्बोधने - हे यादववंशावतंसजगत्पते ! त्वं जय । अत्र सर्वत्र समस्तवृत्तपदेन सम्बोधनमग्रेतनपादे तथैव प्रदर्शितत्वात् । स्तुत्यादौ पुनरुक्तिदोषोऽपि न भयावहः । पृथक् पृथक् सम्बोधनत्वेऽपि न क्षतिरिति स्वधियैव सम्यक् प्रतिवार्य (प्रविचार्य) वक्तव्यं मनीषिभिः, तत्राऽस्माकं नाऽत्यादरः, किं बहुना जल्पनेनेति दिग् । द्वौ जिनौ हरिवंशे समुत्पन्नावतो विंशति[त] मजिननिरासार्थमन्यद् विशेषणं विशिनष्टि । एवं सर्वत्र स्वधियैव भावना कार्या इति ।
समुद्रविजयनरराजेति । राजते-शोभते इति राजा, तेषां तेषु वा राजा नरराज इति राजाह:सखिभ्यश्चेति तत्पुरुषे टच्-प्रत्ययस्ततः कर्मधारयस्ततो['शिवा' तया सह] द्वन्द्वस्तयोः सुत इति तत्पुरुषस्ततः सन्मतिना सह कर्मधारयकृते यथेष्टसिद्धिस्तत्सम्बोधने-हे समुद्रविजयनरराजशिवासुतसन्मते !। . जनानां समूहो जनता, समूहेऽर्थे तल्-प्रत्ययः । जनताया - जनसमूहस्य जननं-जन्म तदेव जलधिः-समुद्रस्तस्य तस्मिन् वा तारणरूपा तरिरिव तरिर्यः स, तत्सम्बोधने-हे जनता-जननजलधितारणतरे ! त्वं जय।
सवनं-सावः क्षयः, षोऽन्तकर्मणि, अस्माद् भावौ (भावे) घञ्-प्रत्ययः । सावरूपो भावः सावभावः, तद्धितीय-ठक्-प्रत्ययः, क्षायिकभावो निश्चलभाव इति यावत्, सप्तक्षये क्षायिक इति श्रुतेः । यद्वा षुप् सवैश्वर्ययोरस्मादपि घजि कृते सावभावो-बालभाव ऐश्वर्यरूपभावो वा । तत्र त्वं योगीन्द्रः सन्नपि मित्रादिप्रेरणया आयुधशालायां सहसो बलस्य लवो-लेशस्तेन जितस्तिरस्कृतो हरिविष्णुर्येन सः । द्वितयपक्षेऽपि नेमेर्बलवर्णनावसरे हरिपदेन लक्षणया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org