________________
१८६ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः वलित: शिवसम्पदारुणक्रमणस्त्वं जिन ! पापदारुणः । . विलयार्थमकोपदारुण-ज्वलनोऽर्तिकमलापदारुणः ।।२।।।। : प्रत्यूत सर्वं सहसारतेजस्तापं समेस्त्वं सहसाऽरतेऽजः । व्यघाः सुधावाक्यनिधानवद्यः, पुंसामभीष्टं बहुधाऽनवद्यः ।।३।। [उप०] त्वं भिन्द्धि मे कामरसं सदेह, विराज्यऽनेकाऽमरसं स देह । यो वन्दितः पीवरमोदयेन, मनोरमोऽतीवरमोद ! येन ॥४॥ यस्ते गिरोऽकष्ट ! पपावनेशत् तस्मात् तमो विष्टपपावनेश ! | . तेन स्मरश्चेभरदाऽवदातयशोऽऽघवल्ली भरदावदातः ॥५॥ तस्मै नमस्तेऽभवतादऽमाय !, येन प्रयत्नो भवता दमाय । चक्रे गरीय:करुण ! क्रमेण, क्षिप्तानि कर्माण्यरुणक्रमेण ॥६॥ .. नयस्व मे सन्तमसं तनुत्वं, बुद्धि सुसाधूत्तम ! संतनु त्वम् । भवान् शिवश्रीगलसज्जहार !, यः पापमिद्धाङ्ग ! लसज्जहार ।।७।। त्वयीश ! यः स्यान्नतिभागऽभीराऽ-वाऽऽभाति तस्य प्रतिभा गभीरा । दत्ते च काऽमन्द-रमा-पदस्य, शान्तस्य कामं दरमापदऽस्य ॥८॥ स त्वं तमोऽकाम ! धुनीहि तेन, जिते रसाला-मधुनी हितेन । वाक्येन यस्याऽपकृताऽमृतेन, दत्ताङ्गिमाला सुकृताऽमृतेन ।।९।। वीक्ष्याऽब्जिनीबान्धवनव्यधाम ! दवोपमक्रोधवन व्यधाम् । मुदं तवांऽहोरहिताननन्त दहन् यदुच्चैरऽहितानऽनन्त ॥१०॥ त्वं संविदा चारु तमःकृशानोः, भियः सृजेशोरुतमः कृशानो ! । पयोदनिन्दाबुधराव यस्य, नऽयेऽघपङ्काम्बु धरावयस्य ! ॥११॥ शश्वज्जयाऽधीश्वर ! स त्वमिद्ध-प्रभाऽवशस्तारतपावनस्य । श्रेयस्तरो यस्य यशो बभासे, प्रभावशस्ताऽरत-पावनस्य ॥१२॥ अपाऽस्त मोहाऽनिकृते पराम, निरासको येन नतस्तवमीश ! । अपास्तमोहा-कृतेऽपराम, कृतोद्यमस्तं भवभीमसिन्धोः ॥१३।। १. 'कलितः' - ने. । २. 'मोहाविकृते' - ने. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org