________________
षड्भाषानिबद्धं श्रीनेमिजिनस्तवनम् • १७३ किंतु कलिकाल-मलहरणकारणमलं, कामये चरणपरिचरणमिह मंगलं ॥२८॥
षड्भाषाभिस्तवनमिह मे निम्मिमाणस्य जज्ञे, पुण्यं तस्मात्तव नवपदं द्वंद्वराजीवराजी । चेतः सद्मन्यविरतमलं भासमाना समाना, क्षेमामोदं दिशतु शिवपदानन्दमन्दारकन्दम् ॥२९॥ [मन्दाक्रान्ता] ये त्वच्छासनमामनन्ति मनसि स्याद्वादमुद्राङ्कितं, तैस्तत्वं निरटङ्किसङ्कटकुटीकोणायमानं परैः । तद्भक्ताः किल पद्मसुन्दरपदामोदप्रमोदास्पदं, साम्राज्यं विलसन्तु सन्तु सततध्यानावधानास्त्वयि ॥३०॥ [शार्दूल०]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org