________________
४५) षड्भाषानिबद्धं श्रीनेमिजिनस्तवनम् संस्कृतम् - विजित्यदुर्वारमनङ्गविभ्रमं, विहाय बालामबलामतन्द्रितः । समापयन् ब्रह्मसमाधिसम्पदं, शिवाय नेमिः शिवतातिरस्तु सः ॥१॥ [वंशस्थ] चलत्पताका चलपत्रपत्रवच्चलं विदित्वा किल सौख्यमक्षजम् । अनन्तदृग्बोधमयि सुधामनि स्फुरच्चिदानन्दसुखेऽवृतद्भवान् ॥२॥ अयि ! क्व लीलाम्बुजधर्मवारणः श्रियश्चलच्चामरचारुचञ्चलाः । क्व साम्यसाम्राज्यमहोदयो ध्रुवो हृदीति सङ्ख्याय समाददे व्रतम् ॥३॥ स्वरूपतः सोहमिहास्मि तत्.कथं, परोपतापं करवाणि तुल्यदृग् । इति त्वदीयं करुणारुणं मनः, समस्तसत्वेषु वधान्यवीव्यथत् ।।४।। तमालनीलाऽम्बुजपुञ्जमञ्जुलं, लसत्तडित्ताण्डवलोलकुण्डलम् । स्वरूपमाधाय करग्रहे सुरीदृशां निमेषत्वमपाहरभवान् ॥५॥ . घटप्रतिभरस्तनीमखिलचन्द्रबिम्बाननां, कनत्कनकचम्पकद्युतितनूमनुनश्रियम् । मरालगमनामनाकुलमनाः स वोऽव्याज्जिनो, निभाल्य जरतीनिभां परिजहार राजीमतीम् ॥६।। [पृथ्वी] वातव्याधूतनूतद्रुमगलितलताम्लानमन्दारमालां, लीलामालापयन्ती विलपति विरहादीनवोपघ्ननिघ्ना । राजीमत्यङ्गनायाः किमिति हत विधे ! लेख एष व्यलेखि, भावी योगे वियोगो ह्यकरुण ! करुणा त्वन्मनो नो रुणद्धि ॥७॥ [स्रग्धरा]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org