________________
१६८ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः निविडजडिमारम्भे१९ भीमे महाभवसागरे, चरणकमलं ते निस्सीमं महामि तरीसमं ॥१३।। [हरिणी] बन्धो ! नेमे ! विमलकरुणानीरसंभारसिन्धौ, नीलीनीलच्छविनवमणि सञ्चयच्छायकाय !। कामं वामं कलहकलिलं कामकल्लोललोलं, मूढं गूढं नियमयमसा मङ्गलाऽऽसङ्गिचित्तम् ।।१४।। [मन्दाक्रान्ता] समुद्धरतरा रमा निरयकंदराकारिणी, समीरलहरीचला सरससुन्दरी सुन्दरी । भवे किमिव सुन्दरं दरदुन्तहेलाहरं, विहाय तव केवलं चरणचारुपङ्केरुहं ।।१५।। [पृथ्वी] कामं कुङ्कमपङ्कपिञ्जरतरं वन्दारुदेवावलीचूडाचुम्बिसुचारुसञ्चयमणीसण्टङ्किटङ्ककारवम् । नेमे ! निस्समसामधामपरमच्छिन्नच्छलायास ते, संसेवे चरणारविन्दमसमं भूमण्डलीमण्डनम्२० ॥१६।। य:२१ संस्कृतप्राकृतशौरसेनभाषाभिरामिस्तिसृभिर्निबद्धां । एनामधीते स्तुतिमेष मान्य२२, रत्नप्रभोऽभीष्टघटापटुः स्यात् ।।१७।। [इन्द्र०]
१९. 'रम्मे' - पा. । २०. 'मङ्गलम्' - को. । २१. 'यत्' - को. । २२. 'मान्या' - पा.।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org