________________
१५२ •
श्रीनेमिनाथस्तोत्रसङ्ग्रहः
अवितथवादिनस्तव न कोकिलकण्ठरूचामसमतमसां दूरीभूता प्राप्यते पद्मनेत्र ! | निः पुण्यैर्ये दृगिव विशदा वाग् हारिणी तेऽघधीभाराक्रान्ता ध्रुवमपथगा : ७ पतन्ति भवावटे ॥२१॥
शुचितरचमरैर्निशाधीश्वराभीशुभङ्गप्रदैस्त्रिदिवयुवतिभिर्लसत्प्रीतिभिर्वीजितः स्वः पतिः । प्रणतसुरशतः पुरः प्रस्फुरन्नृत्यसङ्गीतकः समनुभवति यत्सुखौघं प्रभो ! तत् तवाऽऽज्ञाफलम् ॥२२॥ रामाः कामास्त्रं कुसुमितलता चित्रलेखामरन्दोन्माद्यद्भृङ्गा लसदसमसुधाश्चन्द्रलेखा त्विषश्चचित्तं हर्तुं नलिनवनभुवोऽप्युत्केसरश्रीभरा नासन्नीशा जिन ! तव शिवकृच्छमामृतनिश्चलम् ॥२३॥ तावन्मोहगजेन गर्जितमथो मिथ्यात्वदुः प्रोथिना, स्वैरं घुर्घुर्रितं मनोभवमहाशण्डेन च त्राट्कृतम् । भव्यप्राणिमनोवने मदमृगैर्भ्रान्तं च यावत्त्वया, स्वामिन् ! नाऽमिततेजसा प्रकटितं शार्दूलविक्रीडितम् ॥२४॥
परिस्फुर्जत्तूर्यध्वनिभिरभितच्छायाऽनुमेयाऽचिर
प्रभारोचिभारैः श्रितघनरसैर्मेघविस्फूर्जितानि ।
वितन्वानैः स्वामिन्नमरवरभरैर्देशनाभूमिशोभाशैलस्त्वं सेवितोऽस्ताऽन्यमत - सुवदनाऽम्भोजन्मरुचिभिः ||२५||
त्वदुदितसिद्धिशर्मपरमाऽमृतपानमनाजनावली,
हृदयनिबद्धवसन्तविकाशिरसालसद्वनमञ्जरी ।
६. ‘०तमसं'
Jain Education International
-
अ. । ७. '०पथगा' - को. । ८. ' ० भीश०' - को.
For Personal & Private Use Only
www.jainelibrary.org