________________
विविधछन्दोनामगर्भ नेमिजिनस्तोत्रम् • १५१ नाथ ! न्याय्या सरय-हययुग्वीर्यवत्यत्तियुक्ता, यद् राज्यश्रीभवति भविनां स त्वदंहिप्रसादः ॥१५॥ युवतिविरतोऽप्युच्चैर्मोदप्रदो हरिणीदृशांनिखिलविषयग्रामच्छेदोत्सुकोऽपि जगत्सुहृत् । क्षितिभृति सदाचारोऽप्यत्र स्थिरत्वमितः प्रभो !, वद मृदुतया युक्तोऽप्याप्तः क्षमाधरतां कथम् ॥१६।। सदा दोषोच्छेदिन् हिमशिखरिणीह त्वमुदितः, समं सच्चक्रैर्यन्मदयसितमां कौशिककुलम् । समं पद्मोल्लासैः कुवलयविबोधं च कुरुषे, चमत्कारं स्फारं जनयसि न केषां मनसि तत् ॥१७|| नयन्नसमविस्मयं स्वचरितेन पृथ्वीजनं, क्षमोद्धरणधीर ! हे नरकभेदन ! त्वं जिन ! । प्रमोदलहरीभृते मम मनोऽर्णवे ब्रह्मणाऽन्वितो निरुपमश्रिया वसतमामनन्तेन च ॥१८।। शुचि-शङ्ख-सुचक्रचापभागपि गदाऽन्वितो नो, पुरुषोत्तमतां श्रयन्नपि त्वमजनार्दनश्च । छलवर्ण्यपि यः पराऽश्नुषे त्रिभुवनं त्रिपाद्या, त्वयि तत्र ममाऽतिशायिनी भवतु भक्तिरीश ! ॥१९।। शारचन्द्रमः समयशस्ततिधवलित ! सद्यादववंशपत्रपतितं चपलजलरुहः । प्रोज्य चलं पयोलवमिव क्षितिपपदसुखं, नित्यमशिश्रियः शिवसुखं त्वमिन ! शमधन' ! ॥२०॥
३. 'भेदिन' - को. । ४. 'त्रिपद्या' - को. । ५. '०धर' - को.। .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org