________________
१५० • श्रीनेमिनाथस्तोत्रसङ्ग्रहः स्त्रगसमसुमवसुविजितशशिकलाऽप्यपहृतमदमतिरिव तव यशसा । जिनवर ! रुचिजितमणिगुणनिकर !, त्यजति सपदि विकसनमतिविरसा ॥१०॥ .. त्वमंचलधृतिरसि यदि जिन ! कथमिव, .. तदधिकतररुचिरसि शिववरपुरि। समिति सततकृतततरतिरसि यदि, किमिव तदुपशमरसमयमतिरसि ॥११॥ प्रभो ! मध्यस्थोऽपि क्षिपसि बहुधा कर्मयोगानभव्यानां सिद्धिं जनयसि न मैत्रीं श्रितोऽपि । तथा कन्यात्यागेऽप्यनुभवसि यत्प्रोच्चभावं, बुधत्वं तन्नव्यं तव शिव ! जयाऽऽनन्ददायिन् ! ॥१२।। रमाऽऽस्पदे जिताऽमरापगातरङ्गचङ्गभा प्रपञ्चचामरावलीमरालमण्डलीश्रिते । विलोचने लसद्दले२ रदांशुकेसरेऽलितांप्रभो ! प्रयातु ते मुखाम्बुजे मदीक्षणद्वयम् ॥१३॥ ललितपदा सुलक्षणगुणा सुवर्णकान्ति{दुमधुरोक्तियुक्तिसुभगा सुवृत्तरम्या । . विलसदलक्रिया रुचिरविग्रहा न केषां, हरति मनांसि नाथ ! तव वाणिनीव वाणी ॥१४॥ सद्दानाम्भोमिलदलिकुलभ्राजमानेभमाला, मन्दाक्रान्ताऽर्णवनिवसन-स्यन्दनश्रेणिरम्या ।
२. 'विलोचनोल्यसद्दले' - अ. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org