SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ४०) महाकाव्यसप्तकपादपूर्तिरुपा नेमिनाथस्तुतिः कश्चित्कान्ताऽविरह ! गुरुणाऽस्वाधिकारप्रमत् ! त !१, ... स्तोता पारं सदृगपि तवेयाद् गुणाब्धेर्जनोत्र । प्रान्त्योदन्वत्समधिकतरस्येति तुष्टाव मोदात्सुत्रामाऽयं दिशतु स शिवं श्रीशिवानन्दनो वः ॥१॥ [मन्द्राक्रान्ता] वागर्थाऽविवसंपृक्तौर्यस्य सज्ज्ञानशालिनः । श्रुता महोदयावाप्त्यै नूनं नेमिः श्रिये स वः ॥२।। [अनुष्टुभ्] अस्त्युत्तर ! स्यां दिशि देव ! तात्माद्यसारमैयब्जयुगे यथात्र । १.. कश्चित्कान्ता - कः जनः, चित् - प्रज्ञा ज्ञानं, तस्याः तस्य वा कान्तः, तत्सम्बोधने हे चित्कान्त !। • आविरह - रलयोः ऐक्यात् आविल-ह । आविलं कलुषं हन्ति इति आविलहः, तत्सम्बोधने हे आविलह ! । • गुरुणा - जिनेन । • अस्वाधिकार - अस्वा - न विद्यते. स्वं-धनं येषां ते अश्वा:-निर्धनाः, तेषां आधयः-मानसिकव्यथाः, ताः एव काः - वह्नयः, तेषां आ-सन्तापः, तस्य र:जलं इव, अस्वाधिकारः, तत्सम्बोधने अस्वाऽऽधिकाऽऽर ! । • प्रमत् ! - प्रकर्षेण मथ्नाति मिथ्यात्वादिप्रत्यर्थिनः इति प्रमथ्, तत्सम्बोधने-हे प्रमत् ! । • त ! - ता - लक्ष्मीः, ज्ञानलक्ष्मी इति यावत्, अस्ति अस्य इति तः, तत्सम्बोधने - हे त !। २. वागर्थाविवसम्पृक्तौ - • वाग्-वाणी, अर्थाऽविवसम्पृक्ता - अर्थतो अविवा विवादरहिता, तेन सम्पृक्ता-मिलिता, ऊः रक्षार्थको अव्ययः, अर्थात् रक्षति । ३. उत्तर ! हे श्रेष्ठ !, स्यां-भवेयम्, दिशि-दिशति सोऽयं इति दिक्, तस्मिन् दिशि, हे देव ! तात्माद्यसारं - ता-लक्ष्मीः, आत्मा - देहः, तदादिवस्तुनि तात्मादि, तद् एव असारं तात्माद्यसारम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy