________________
३३) नेमिनाथस्तवनम्
મધુર પદાવલી યુક્ત આ સ્તવનની સાથે સમાન રચના પદ્ધતિ યુક્ત સુપાર્શ્વનાથ પરમાત્માનું સ્તવન પણ એ જ પ્રતમાં છે. બન્ને સ્તોત્રોમાં છન્દ-ભાષા-વિશેષણમયતા વગેરે સર્વ સમાન હોવાની સાથે जन्ने स्तोत्रोना अंतिम पद्यमा 'विजय' शब्होत्सेज छे. ठेनाथी उर्तानुं નામ સૂચન થયું હોઈ શકે.
સમાનકર્તૃક હોવાથી સુપાર્શ્વનાથ સ્તવન પરિશિષ્ટમાં આપ્યું છે.
"
विमलकेलकेलिपरायणं, शमरमाऽपरिभङ्गनरायणम् । नवभवागतभोगनिरञ्जनं, नमत नेमिजिनं जनरञ्जनम् || [द्रुतवि०] चतुरलोकचकोरनिशाकरं, हरिकुलाम्बरदीप्तिदिवाकरम् । मदनमत्तमतङ्गजगञ्जनं, नमत नेमिजिनं जनरञ्जनम् ॥२॥ भविकमानसवाससितच्छदं विशदकोकनदाऽऽभरदच्छदम् । विकटमोहमहाभटभञ्जनं, नमत नेमिजिनं जनरञ्जनम् ||३|| नतजनाऽमितकामितकारणं, स्मरमहातरुवारणवारणम् । नयनमञ्जिमतर्जितखञ्जनं, नमत नेमिजिनं जनरञ्जनम् ॥४॥ स्वपदपावित[प]र्वतरैवतं नरसुरासुरनायकसेवितम् । स्वतंनुभानुवरीभवदञ्जनं, नमत नेमिजिनं जनरञ्जनम् ॥५॥ इति नूतिं गमितः शमिनायकः, सकलमञ्जुलमङ्गदायकः । सृजतु नेमिजिनो मम सर्वतो, विजयमेव सदा सुखकारणम् ||६||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org