________________
नेमिशतकम् • ११९ यो मातरिश्वा शुभरैवताद्रेः, समागतः प्राणप्रियं विस्पृश्य । आश्लिष्यते सोऽपि तया सुमुग्धया, संयोगजं योगगुणं५६ विचिन्त्य ॥११३।। [उपजाति:] एवं स्मरव्याधिवियोगसङ्कला, विलप्य कन्या निजगाद चालीः । गतो हि नेमिन्नु नाऽऽगतोऽसौ, भद्रं च भूयात् सखि ! कान्तनेमये ॥११४।। सख्यस्तदानीमिति सम्बभाषुः, नेमिः स्म सङ्कामयते प्रव्रज्याम् । राजीमती भर्तृपथाऽभिलाषिणी, वक्तुं तदैवं सततं प्रचक्रमे ॥११५।। त्वं मित्राशु करोत्करं हिमसमं कुर्यास्त्वमेवं धरे !, काठिन्यं त्यज मारुत ! त्वमपि च स्वेदप्रणोदी भव । त्वं क्रीडाचल ! मार्गसुन्दरतरं दद्याः यतो वल्लभः, श्रीनेमिर्नवनीतकोमलतनुर्दीक्षां समालिङ्गते ॥११६।। [शार्दूलविक्रीडितम्] राजीमती नेमिजिनस्य पार्वे, दीक्षां गृहीत्वा समुपाय॑ केवलम् । तौं दम्पती प्रापतुरव्ययं पदं, देयात् स नेमिः श्रियमेव मञ्जुलाम् ।।११७।। [उपजाति:]
५६. संयोगजसंयोगं यथा हस्ततरुसंयोगात् कायतरुसंयोगो भवति तथा रैवताद्रिवायुसंयोगात् राजीमती नेमिसंयोगो भवति इति चिन्तयति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org