________________
११८ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः
प्रविजहौ तनुदोषमृते त्वतो,
मनसि मे मलिनं च बहिः स्थितम् ॥१०२॥ [ द्रुतविलम्बितम् ] जलमुचा जगदार्द्रतं कृतं, घनतरं प्रवितीर्य जलं नवम् । नं पुनरस्य प्रियस्य ध्रुवं मनस्तिलतुषस्य त्रिभागतयाऽऽद्रितम् ॥१०३॥ नवभवेषु स एव मया कृतः, सहचरः प्रविहाय परान् जनान् । इह पराभवपात्रमहं कृता, न खलताकरणं प्रिय ! साम्प्रतम् ? ॥१०४॥ अहह नाथ ! गतो यदि तोरणाद्, मृगवधमनुकम्प्य दयान्वितः । निजवधूं विरहय्य भवादृशां, न तु कृतं हि त्वया शुभमात्मना ॥ १०५ ॥ वदसि देव ! विचो हि यदीदृशं नियतिभावविवादवियुक्तकम् । ममकृतं त्यजनं नियतिश्रितं, तदपि चारुतरं न भवादृशाम् ॥१०६॥ सखि ! बभूव निरुत्सवमाधवो, विरहदुःखकरो ननु माधवः । किमपि भूषणमद्य न रोचते, विरहपावक एष निरोधते ॥१०७॥ अविधवां विधवां कथयन्ति मां, त्वयि सति स्मितलोचन ! यज्जनः । दहति गात्रलतां च यथा मम, तव मनो दहति स्म कथं न तत् ? ॥१०८॥ इह हि तेन च सर्वमरोचकं, प्रियतमेन ममाऽद्य विनिर्मितम् । बत तथाऽपि हि तत्र रुचिः कथं ?, न खलु वेद्मि चरित्रममुष्य वा ॥१०९॥ विरहपावकदीपितमद्हृदः, सखि ! ननाश न धृष्टतरोऽलसः । न च कदाऽपि शमाऽमृतशीतले, स्वहृदि वेशमकारयदाऽशुभे ॥११०॥ न कुचहारमणी न च कुण्डले, वसनकङ्कणकान्तिगणस्रजः । अपजहार स एव न तस्करः, सखि ! मुमोष मनो मम तद्भृतम् ॥ १११॥ भूषां भज त्यज जिनं च नवं वृणीष्व,
कान्तं वरं हि किमनेन सुनिष्ठुरेण ।
आलीरिताह वरराजसुतेति मुग्धा,
नेमिः श्रृणोति हृदिगः सखि मा प्रजल्प ॥ ११२ ॥ [ वसन्ततिलका]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org