________________
नेमिशतकम् • ११७
अमृतसूः प्रथमं यदि विस्तृतस्त्वमसि किङ्करवर्गमृतप्रसूः । विषसहोदरता सफलीकृता, जलधिजन्म मुधा गतमेव ते ॥ ९४ ॥ हिमकरं सखि ! हिंसितहिंसकं, खरकरं कथयेति मदीरितम् । अयि ! हि किं कुरुषे बहुपातकं, त्वमसि किं मम वल्लभसङ्गतः ? ॥९५|| सखि ! हरिं प्रतिबोधय मद्गिरा, कथमहो ! उदपादि त्वया विधुः । वृजिन व्यूहनिरूह कदर्थितः, प्रथितकृष्णतनुर्भवसीत्यतः ॥९६॥ अपि विधुन्तुदसीति विधुंतुदस्त्वमिह नासि परं तु विधुंतुदः । अमुमतीव परासनकारणं शशभृतं विनिगल्य विमुक्तवान् ॥९७॥ त्वमपि किं कुरुषे मयि नेदृशं, जिनवरस्तु वरोऽप्यकरोदिदम् । यदि निजोऽपि भजेदतिवैरितां, तदपरस्य परस्य हि का कथा ? ॥९८॥ जाने नेमिः सखि ! शिखरितः, प्राप्त एवाऽस्मदीये,
गेहे स्वप्ने तदनु च मया, लज्जया भाषितोनो ।
व्रीडां यावद् हृदयजनितां, मोक्तुमत्युद्यताऽहं,
क्रूरो दैवः प्रियसुखकरी, तां प्रमीलां जहार ॥९९॥ [ मन्दाक्रान्ता] राजीमती रात्रिषु नाभसीषु५५, दीर्घा सुनिश्वासविवर्णिताऽधरा ।
रहस्युपालम्भवचस्तु नेमये,
ध्रुवं बभाषे स्वयमेव केवलम् ॥१००॥ [उपजातिः]
अहं तु जाने नितरां मदीयः, प्राणेश्वरो नैव परस्य कस्य ।
त्वं सर्ववेदी भवसीति नाथ !, कथं न जानासि मदीयचित्तम् ? ॥ १०१ ॥
तव वपुर्मलिनं बहिरेव यत्,
तदखिलं जनताऽवगतं च माम् ।
५४. 'व्रजिन' ला., 'वुजिन' - - पा. । ५५. नभसः इमाः नाभस्यः तासु, श्रावणसम्बन्धिनीषु इत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org