________________
११६ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः . सखि ! पिधेहि विधेर्नयनद्वयं, कमपि कूटघटं प्रविघट्य सः । . यदि न पश्यति तं प्रियमानये, बहु विलुभ्य गिरेः शिरसः स्वयम् ।।८३॥ अयि ! कठोरकुकर्मणि कर्मठः, परनिकृन्तनमर्मणि कर्मठ:५१ । अखिलसौख्यमितद्रुविशोषको, विधिरसौ किल केन विनिर्मितः ? ॥८४।। निखिलधामवतां धुरि तिष्ठतो, मम प्रियस्य विवाहमपीच्छतः । सपदि वारयता भवता त्वया, वद सुराधम ! किं समुपार्जितम् ? ॥८५।। विधिरसौ परिघः परिकथ्यतां, न पुनरेष जगत्प्रविधायकः । हृदि निविश्य प्रियस्य दयाछलात्, प्रवलनाय मतिं समकारयत् ॥८६॥ न हि मया तव किञ्चिदुपाहृतं, न च कृता तव मानविखण्डना । अथ च कार्यविधिर्न च नाशितः, कथमहं वनिताऽपि विडम्बिता ? ॥८७।। स्वकृतकर्म न वेत्सि यथा त्वया, निजसुता किमकामि स्मरं स्वयम् । प्रणयिनं परकीयमपाहरन् सकलकर्मकरेति न लज्जसे ? ।।८८॥ यदि गतः खलु नेमिजिनेश्वरः, प्रियतमो मयि मोहविवर्जितः । तदनु किं सुखमाशु गतं मम, चिरतरं निजधाम विमुच्य च ॥८९।। मलयमारुत-कोकिल-चन्द्रम:प्रभृतयः प्रतिकुलविधायकाः । इह भवन्त्यनुकूलप्रदायिनो, विधिकृतं न हि केन निवार्यते ? ॥१०॥ विधुरयं विधुरं कृतवानलं, यदिदमेव हि तस्य कुलोचितम् । कुटिललक्ष्मभृतामशुभायती, मतिरहो ! परसौख्यनिकृन्तिनी ॥९१।। कुमुदबान्धवऍष उदीरितः, सुनिपुणैरिदमेव च सूनृतम् । कुमुदबान्धवतामनुकारयन्, विरहिणी जनदाघकरैः करैः ॥९२॥ इममनाथवधूव्रजमर्दयन्, हिमरुचिर्बहुपापकलङ्कितः । अहनि तेन भ्रमन्नभिलज्जते, तदनु रात्रिमुखे चरतीव सः ॥९३।।
५१. मर्मठ:-ला. । ५२. मितद्रुः समुद्रः । ५३. प्रतौ 'कुमदबान्धव' इति पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org