________________
नेमिशतकम् • ११५ घनतरशिशिरोपचारकारैरथ खलु तामवबोधयन्ति सख्यः ॥७३।। [पुष्पिताग्रा] अतिशयतरमीरिता नताङ्गी, पुनरपि मोहमवाप राजकन्या । विदरितमिलितालिवारवाग्भिरपि न विबोधकरं तथाऽपि लेभे ॥७४।। कुवलयदलकोमलां च बालां, कथमिह मामबलां च रागमुग्धाम् । कुलिशकठिननेमिनाथहस्ते, शठतर ! पातयसि स्म पुण्डरीक ! ॥७५॥ इह पिकरटन-प्रमेघनाद-प्लवशिखि-चातककूजितं विश्रुत्य । यदि न चयति ते चिरार्द्रभावं, मन इति किं करवाणि ? नेमिनाथ ! ॥७६।। अपि च कुटज-नीप-कुन्दकाख्याः विकसित पुष्पसमूहजातशोभाः । तदनु च पथिकाः गृहेषु जग्मुः, सखि ! न च सुन्दरवल्लभः समेतः ॥७७|| इयं शिरीषादपि सौकुमारी, स एव वज्रादतिसङ्कठोरः । . यदेतयोर्योजनसंविधाने, तदा विधे ! त्वां न घृणा रुरोध ॥७८॥ [इन्द्रवज्रा] निपतितं मम मूनि यथेदृशं, सपदि तादृशमाशु पतिष्यति । शिरसि चेत् तव कर्मवशाद्विधे ! त्यजसि तां खलु, शीघ्रमहं युताम् ।।७९|| [द्रुतविलम्बितम्] विधिरसौ न निषेधतिं कुत्रचित्, नयविदः प्रवदन्ति सुतार्किकाः । . प्रणयिनं प्रतिषिध्य च मामकं, कथमहो ! अभिधा तव सार्थका ? ॥८०॥ अयि विधे ! किमकारि स वल्लभः, सकलरागवितानविवर्जितः । कथमहं न कृता बत तादृशी, सदृशयोगयुतेः सुखसन्ततिः ।।८१।। पतति दुःखकरो हत दुर्विधिर्बलवतः प्रविहाय वशाजने । हिममपि प्रतिषिध्य महाद्रुमान् कमलिनीमबलामभिप्लुष्यति ॥८२।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org