________________
११४ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः तथाऽप्यऽहो ! वैरिगणः प्रमादः, कष्टं महत्पूर्वभवोपसञ्चितम् । . अहो ! हि मारो नरमारणोद्यतस्ततो बताऽज्ञानविजृम्भितं च ॥६५।। अयं हि रागोरगदृष्टिपातस्तथेदृशाऽहो ! महती विडम्बना । . . अहो ! भवः शाश्वतचारकाशे यतो स्थितिभूरितराऽशुभायते ॥६६॥ . एवं जिनश्चेतसि५० चिन्तयन् सन्, ध्यानेन निष्कम्प इवाऽद्रिराजः । प्रियंवदा राजसुतां जगाद, वरस्रजं धारय सावधाना ॥६७॥ ।' श्रीनेमिः सखिवरणाय कान्त एषस्त्रैलोक्यप्रचिततरावदातकीतिः ।। त्वं राजीमति ! वरवैभवाऽसि धन्या, यस्यास्ते पतिरयमीश्वरोऽधिनाथः ॥६८।। [प्रहर्षिणी] त्वं बाले ! विकसितपद्मचम्पकाभा, कान्तः श्रीहसिततमालमेघवर्णः । , तद्योगे ननु भविता मिथोऽप्यभिख्या, श्यामाद्रेः शिरसि यथेव चन्द्रज्योत्स्ना ॥६९।। आल्यस्मासु चिरकृतं न हापयेथाः, प्रेमाऽनेन प्रियतमेन सम्प्रयुक्ता । अद्याऽस्मन्मनसि सुवाञ्छितं प्रजातं, तुष्टस्ते शुभमतिपूजितो जिनेशः ।।७०|| इत्येवं सखिनिकरे विभाषमाणे, एतस्याः नयनमवाममाचकम्पे । तत्कालं मुकुलितनेत्रया तयाऽपि, सख्योघस्तदनु तथा च सम्बभाषे ॥७१॥ निश्रेयसाप प्रनिबर्हणं क्वचित्, संवालयामास रथं स पश्चात् । वितीर्य दानं स च वार्षिकं जिनो, दीक्षां ललौ रैवतकाननेऽस्मिन् ॥७२॥ [उप०] अथ विरह-धनञ्जयाऽऽकुला सा, बहु विललाप ततो मुमूर्छबाला ।
५०. प्रतौ 'जिनेश्चेतसि' इत्येवं पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org