SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ नेमिशतकम् • ११३ इतश्च४३ नेमिं करिकुम्भसंश्रितं, विधाय विष्णुर्यदुसेनया वृतः । आतोद्यनिर्घोषरवैर्जगत्त्रयं संपूरयंस्तोरणमाससाद ॥५५॥ , , तस्यां नगर्यां च तदाङ्गनानामालोकनाऽर्थं विविधा विचेष्टा । बभूवुरासां४४ सुमनोहराणां सम्भूय मार्गान्तरसंस्थितानाम् ॥५६॥ काचिज्जहौ हारलतां स्तनाभ्यां काचिच्च सख्यै ददयङ्कपालीम् ४५ । काचिन्नितम्बात् स्खलितं दुकूलं, न संजहारेति विलोकलालसा ॥५७॥ कयाचिदेकं नयनं निरञ्जितं कया च कान्तोऽप्यऽवधीरितो निजः । कया स्वबालं प्रविहाय श्वानः ४६, कट्यां दधे चञ्चलनेत्रया तदा ॥५८॥ काचिल्ललाटे वरपत्रवल्लरीं, चक्रेऽथ गण्डे तिलकं नितम्बिनी । काचिच्च लीलागमनाऽलसाऽपि क्षामोदरी शीघ्रगतिं ततान ॥५९॥ काचिद् गवाक्षं नवचन्द्रशोभिनं वक्त्रेण चक्रे ४७ परमोज्ज्वलेन । काचिद् विशालेक्षणतोरणस्रजं, बबन्ध हास्यैः कुसुमोत्करं तथा ४८ ॥६०॥ काचिज्जलार्द्रं निजकेशपाशं, स्नेहाद् गलद्बाष्पमिमं न दध्रे । काचिन्नखाङ्कं न जुगोप लीलया, विलोकमाना यदुपुङ्गवं जिनम् ||६१|| एवं च नेमिः पुरहूतसंयुतो, यावद् गृहं प्राप सदौग्रसेनम् । तावत् पशून्वाटकसन्निरुद्धान्, ददर्श कारुण्यनिधिर्भयद्रुतान् ॥६२॥ पप्रच्छ सूतं४९ किल केन हेतुना, धृता इमे प्राणिगणा अनेकश: ? । विवाहकार्ये तव सोऽब्रवीदिदं विचिन्तयामास ततः स्वचेतसि ॥ ६३॥ अहो ! दुरन्तो विषयाऽभिलाषस्तथाऽप्यऽहो ! मोहनरेन्द्रचेष्टा । अहो ! विरुद्धा खलकर्मणां गतिरहो ! महामूढजनस्वभावः ॥६४॥ Jain Education International 2 ४३. अस्ति नास्ति वा इति संशयान्वितम् । ४४. आसाम्बभूवुः इत्यर्थः क्वचिदेवंविंधोऽपि प्रयोगो दृष्टः । ४५. उभयप्रतौ 'ददिरंकपालीम्' इत्येवं पाठः, अङ्कपाल-आलिङ्गनम् । ४६. 'श्व' शब्दादन्यः 'श्वान' शब्दोऽप्यकारान्तोऽस्ति । ४७. प्रतौ ‘चक्रि:' इति पाठ: । ४८. तथेति पुनरर्थे । ४९. सूतं सारथिम् । For Personal & Private Use Only -- www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy