________________
११२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः
नितम्बभारं सुतरां बभार सा, यस्योपमानं खलु नास्ति सम्यक् । दुर्गं प्रकल्प्येव मनोभवस्तमद्यापि जेतुं जगदिच्छतीदम् ॥४५॥ रम्भे इवाऽस्याः किल सुन्दरोर्वी, सुवृत्तगौरत्वगुणप्रकृष्टौ । विजित्य विश्वं हि मनोभवेन, तौ कीर्तिघाटाविव ३७ संप्रकल्पितौ ॥४६॥ जङ्घाद्वयं यद् ध्रुवमेतदीयं, करं गजस्येव परं जिगाय । ततः प्रणश्यैव करीन्द्रपार्श्वे३८, स्थितश्च तत्राऽप्यंऽघ एव वीक्ष्यते ॥ ४७ ॥ हेमारविन्दे इव चारुपादकार्बुताऽथवा काञ्चनकूर्मकाकृती । किं वा श्रियो वासनिवासपद्मे, पुपोष लक्ष्मीमिति ४० कम्रतायाः || ४८ || विभूषणैर्भूष्यत एष सर्वो, नारीजनो नूनमिति प्रसिद्धिः । किं भूषणानां प्रविभूषणाय, विधिर्मृगाक्षीं कृतवानिवैताम् ? ॥ ४९ ॥ अकारि धात्रा यदशेषशुभ्रमादाय सा गौरतनुः ततश्च । तादृक्ष्यश्वेतत्वमलक्ष्यमाणो, मन्ये वरं४१ श्यामरुचं स चक्रे ॥५०॥
सुखस्तनारोहकराधरावरास्तथा प्रचक्रे विधिना स्फुटा ध्रुवम् । तनूदरं मध्यगतं कृतं न वा, मया न दृष्टं खलु संशयान्वितम् ॥५१॥ बिम्बोष्ठी तुङ्गनाशा कमलनयना कुन्ददन्ता सुकेशी,
सुश्रोणी तुच्छमध्या रुचिरगमना संनता सुस्तनाभ्याम् । वामोरुर्निम्ननाभी सुभगजघना सुन्दराङ्गी च बाला, सा कन्याऽतीवरम्या ननु नरपते नाम राजीमतीति ॥५२॥ [चित्रमाला ] संङ्कर्षणो रुपमुदीर्य तस्या, इति प्रकारं वचनं जजल्प चेत् । राजीमती नेमिजिनं वृणीते, योगस्तडित्-तोयदयोस्तदा भवेत् ॥५३॥ [उप०] इतः समुद्रं विजयं बभाषे हरिस्तथेति ४२ क्रियते जिनस्य । पाणिग्रहार्थे हि महो महागुणाः, कदाऽपि नो वृद्धपराङ्मुखाः स्युः ||५४||
३७. कीर्तिस्तम्भौ इव । ३८. ऐरावणस्य पार्श्वे । ३९. संज्ञायां 'क' प्रत्ययः । ४०. लक्ष्मीं - शोभां पुपोष इव । ४१. वरं धवं नेमिजिनम् । ४२. इतः बलदेवकथनाऽनन्तरं हरिः तथा तेन प्रकारेण इति वचनं समुद्रं प्रति बभाषे द्विकर्मकोऽयं वचनत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org