________________
नेमिशतकम् • १११ गिरिस्वभावात् कठिनं त्वतस्तत्, वेषान्तरत्वात् मृदु बाह्यवृत्त्या । हिया हि तत् श्याममुखं तथाऽपि, जघान चेतांसि जनस्य रागिणः ॥३५।। अघाटि धात्रा यदियं घनस्तनी, तत्कामितस्थान२९मिदं नु मन्ये । वक्षोजशैलोपरि यज्जनानां, भृगुप्रपातं ददते मनांसि३० ॥३६।। अन्तर्दधौ यद् वयसि प्रबाल्ये, कुचद्वयं चञ्चलपद्मनेत्रा । समागते कामनृपे च३१ तबहिः, सङ्कर्ण्यते यौवनकिङ्करेण ॥३७।। नितम्बवक्षोजभरं विनिर्ममे३२, विधिस्तदाऽयं खलु दानलम्पटः । मध्यस्य३३ निर्माणविधौ हि तस्या, अतीवजातः कृपणो नु मन्ये ॥३८॥ वक्षोजभारादतिसंनताङ्गी, तथा नितम्बादतिसंस्खलन्ती । चचाल सा मत्तगजेन्द्रगामिनी, सञ्चारिणी कुन्दलतेव रम्या ॥३९॥ तदीयमङ्गं किल पुष्पधन्विनः, पुरं नु मेने वरधाम३४शोभि । न चेत् कथं तत्र मनांसि यूनां, वसन्ति नित्यं च सुनिश्चलानि ॥४०॥ यदीय बाहू नितरां बभासतुः, कफोणिविस्तीर्णसुवृत्तकूपरौ३५ । नखप्रभाभूषितपाणिपल्लवौ, शाखे इव श्रीयुतकल्पशाखिनः ॥४१॥ यवालिकाऽलङ्कृतसुप्रकोष्ठौ, रेखायुतौ तौ सुतरां चकासतुः । अतो हि विश्वाऽभरणस्य नेमेः, यौ पाणिपीडस्य कृते भविष्यतः ॥४२॥ गम्भीरनाभी नितरां बभाषे, वलित्रयाऽलङ्करणैव तस्याः । संक्रीडनार्थं स्मरमानसौकसः, सोपानयुक्ता खलु दीर्घिकेव ॥४३।। गूढोदरेऽरोचतं रोमराजी, कृष्णच्छविस्तामरसानुकारे । संलक्ष्यते पङ्कजमध्यसंस्थिता, द्विरेफमालेव३६ नितान्तरम्या ॥४४॥
२९. यत्र लोका: कमलपूजां तथा क्रकचमोचनं तथा भृगुपातं कुर्वन्ति कामार्थे तद् कामितस्थानम् । ३०. मनांसि भृगुपातं दत्त्वा मग्नानि भवन्ति । ३१. इवार्थे 'च' । ३२. अतिस्थूलत्वात् । ३३. मध्यावतीवकुशमनः कृपणत्वम् । ३४. धाम गृहं तेजः वा । ३५. कंफोणिः भुजमध्यं तत्र विस्तीर्णौ पुष्टौ सुवृत्तकूर्परौ, अनेन पुष्टत्वम् । ३६. पङ्कजमध्ये द्विरेफमालायाः बहिर्दर्शनं स्वल्पं स्तोकम् अत एव रोमावल्युपमानम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org