________________
११० • श्रीनेमिनाथस्तोत्रसङ्ग्रहः अपाङ्गसञ्चारविलोलचारुणी, विकोशितेन्दीवरपीवरघुती । विलाससंस्मेरभृती तदम्बके२१, सरेजतुर्मोहनमन्त्रभाजी२२ ॥२५।। कर्णोत्पलत्वेन व्रजन्ति तस्या, अपाङ्गसंवीक्षणभृत्कटाक्षाः । . . या काप्यभिख्या नयनश्रियोऽस्याः, तां सर्ववेदी प्रविवेद नो वयम् ॥२६।। अरालकेश्या:२३ खलु केशपाशाः, मनोभवस्येव हि चन्द्रहासः । जगत्त्रयस्येव जयाय कल्पितो, नित्यं विकोशीकृत एव राजते ॥२७॥ यस्याः मुखेन्दावुदिते नितान्तं, ध्वान्तं पलायावसतिं चकार । तस्याः सुकेश्याः खलु कुन्तलाल्यां, यतो भयं२४ तत्र हि तच्छरण्यम् ।।२८।। त्रिकस्थितो२५ मञ्जुलकेशहस्तः, संशोभते स्निग्धच्छविः सुकृष्णः । तस्याः नितम्बस्थलसन्निधान, रक्षाकृते यः किमु नागराजः ? ॥२९॥ मालतीकुसुमगुम्फितो बभावञ्जनप्रकरकेशपक्षकः । याने खलु जले हि निविष्टः, फेनपुञ्ज इव हारशेखर:२६ ॥३०॥ [रथोद्धता] कर्णौ किमस्याः स्मरजालिपाशौ, प्रकल्पितावंससमाश्लिषन्तौ । नो चेत् कथं लोचनपक्षिसार्थस्तत्रैव बध्येत तदीयद्रष्टुः ॥३१॥ [उपजातिः] वीणा-पीका-वेणुकलप्रणादाः, जिग्ये यया मञ्जुलनिस्वनेन । अतो हि कण्ठः किमजायताऽस्याः, रेखात्रयालङ्कृतकम्बुशोभी ॥३२॥ परस्परं मत्सरिणौ यदीयौ, पीनोन्नतौ शेखरसुन्दराकृती । स्तनौ च२७ मीनध्वजकुम्भिकुम्भौ, विरेजतुः कुङ्कुमरागरङ्गितौ ॥३३|| पुरन्दरो दारितवान्नगानां२८, पक्षान् यदाऽसौ गिरिराजद्वन्द्वम् । नष्टं भयात् तद् हृदये मृगाक्ष्याश्चकार वासं स्तनवेषधारि ॥३४।।
२१. अम्बके नेत्रे । २२. मोहनमन्त्रं भेजते इत्येवं शीले मोहनमन्त्रभाजी, द्विवचनम् । २३. कुटिलकेश्याः । २४. भूमौ स्खलितपादानामित्यादि । २५. त्रिकं वंशाधःस्थानम् । २६. हरशेखरा गङ्गा, तस्याः अयं हारशेखरः, तस्यायमित्यण् । २७. 'च' इवार्थे । २८. नगाः पर्वताः तेषां नगानाम् ।
वंशाधःस्थानम् । २६. हरशवताः तेषां नगानाम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org