________________
नेमिशतकम् • १०९ निगाल्य पीयूषरसं पितामहो, मरालगत्या वदनं व्यधत्त । तदुद्धृतं शेषमलं गृहीत्वा, किं वा विधुं येन कलङ्कितोऽसौ ? ॥१५।। चन्द्रेण मीयेत तदीयवक्त्रं, वाङ्मात्रमेतन्न तु वास्तवं तत् । स्वर्भानुना गृह्यत एष चन्द्रस्तमो निगृह्णाति मुखं हि ज्योत्स्नया ॥१६।। क्रीडातडागं मुखमेतदस्याः, नेत्रोत्पलं भ्रूयुगभृङ्गाजितम् । पञ्चेषुहंसस्य विलासहेतोः, किं निर्मितं यौवनकारुणेव ? ॥१७॥ किमुत्पले दालिमबीजसन्ततिः ?, किं बिम्बकोशे खलु कुन्दकोरकः । मुक्तागणो विद्रुमभाजनाङ्कितः ?, किं पद्मरागः स्फटिकैरलङ्कृतः ? ॥१८॥ किं चन्द्रबिम्बे कलधौतकुमल: ?, किं राजते रोचिषि तापनीयकम् । वक्त्रं सुकेश्याः दशनाधरेण, विभ्राजते चा२ऽरुणगौरकान्तिः ॥१९॥ युग्गम् ।। शुचिप्रवाले मधुरत्वमाश्रेयत्,१३ सिता यदा विद्रुमरागधारिणी । तदाऽनुमीयेत सुलोचनाया, औपम्यमेतन्मधुराऽधरस्य ॥२०॥ अनन्तपानीयजुषोऽपि वारिधेः, पयः प्रपीतं हि प्रयाति चान्तम् । रसत्सुबालाऽधरसम्भृतो य, उपैति सोऽन्तं न कदापि काले ॥२१॥ लावण्यमास्ते लवणेषु नूनं, यत्रेव व्यक्तिस्तत१४ एव जातिः । तद्व्याकृतं तद्विपरीतवर्ति, दंतच्छदे यल्लवणत्वमात्तम्१५ ।।२२।। विनिर्मिते मन्मथभूधवस्य, ध्रुवौ तदीये धनुषी न रम्ये । कटाक्षबाणावलिलक्ष्यपातने, न वन्ध्यशून्ये विधिना शितिच्छवी ॥२३॥ अलीकभूषाकरणं१७ किमस्याः, वक्त्रं सदाऽलीकविवर्जितं च । दोषाकरार्थस्पृहयालु१९ तत्कि, दोषाकरं२० वर्जयते नितान्तम् ॥२४॥
११. पञ्च इषवः यस्य सः इति पञ्चेषुः, सः एव हंसः इति पञ्चेषुहंसः तस्य । १२. 'च' इव अर्थे । १३. प्राण्यङ्गत्वादेकवद्भावः । १४. सार्वविभक्तिकः इति सप्तम्यर्थः । १५. लावण्यं गृहीतम् । १६. उत्प्रेक्षते । १७. अलीकं ललाटं, तस्य भूषाकरणं शोभाकरणम् । १८. अलीकं मिथ्या। १९. दोषाकर: चन्द्रस्तस्याऽर्थस्तमोनाशनं अमृतक्षरणमाल्हादनादिस्तस्य स्पृहयालु । २०. दोषाणाम् आकर: खनी, तं वर्जयते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org