________________
१०८. श्रीनेमिनाथस्तोत्रसङ्ग्रहः नारायणो नेमिजिनं बभाषे, स्वामिन्नहो ! धैर्यमतिप्रकर्षः, किमेककान्तां न करोषि रम्यां ?, मन्यस्व वाचं नरदेवदेव ! ॥५॥ [उप०] भवादृशां नाथ ! न कोऽपि बोधकस्तथाप्यहं त्वामभिवक्तुमीशे । पाणिग्रहं चारु भवान् विदध्यात्, यथा दशार्हा मुदिता भवेयुः ॥६।। भवेप्यरागी विभवेप्यरागी, संसारवारांनिधिसेतुभूतः । त्वं वर्तसे यादव ! रागशून्यः, किलाऽद्य पित्रोर्वचनं विधेहि ॥७॥ ये वीतरागा ऋषभादयस्ते, सर्वेऽपि पाणिग्रहणं विचक्रुः । सिद्धिं च जग्मुर्ननु नेमिनाथ !, प्रसीद योषाकरणे त्वतस्त्वम् ।।८।। श्रीनेमिविजितेन्द्रियोऽप्यवधियुक्, शश्वघृणातत्परो, भोगस्नेहविवर्जितस्तदपि यो, मेने हरेस्तद्वचः । कृष्णः श्रीजितसुन्दरी वरकनी, श्रीउग्रसेनात् ततः, पुत्रीं याचितवांश्च नाभससिते, पक्षे तु षष्ट्यां तिथौ ॥९॥ [शार्दूल०] निर्वर्णनाऽर्थं किल रूपसम्पदामधोक्षजः सात्त्वतमादिदेश । . या भाविनी नेमिविभोश्चिरण्टी, सा कीदृशीत्याऽऽशुनिरीक्षतां हि॥१०॥ [उप०] अथौग्रसेनी प्रविलोक्य माधवं, स संबभाषेति विलोकिता कनी । यथा प्रयत्नेन कृतः स राजसूस्तथा कृता केन तदीय वल्लभा ॥११॥ पराङ्गनावर्णनके प्रयोजनमस्मादृशां नाथ ! न चाऽस्ति किञ्चित् । तथाविधानां तु यथार्थभाषया, जिह्वा पवित्रीक्रियते नितान्तम् ॥१२॥ यदीय लावण्यतरुः प्रवृद्धः, प्रफुल्लितो लोचन कैरवेण । प्रत्यग्रहस्ताग्रसुपल्लवोऽयं, पीनस्तनाभ्यां फलितो रराज ॥१३।। यस्याः मुखेन्दो रदरश्मिकौमुदी, स्फुरत्प्रभामण्डलहास्यमिश्रिता । सुधारसाधारवराऽधराधरा१०, मुदे न कस्मै सुभगस्य चेतसे ? ॥१४॥
८. ब्रह्मणा । ९. 'वराङ्गना०' - पा. । १०. सुधारसस्य आधारः सुधारसाधारः, वश्चासौ अधरश्च वराधरः, सुधारसाधारश्चासौ वराधरश्च सः, तम् आसमन्तात् धरति इति सुधारसाधारवराधराधरा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org