SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ नेमिशतकम् . १०७ છંદો પ્રયોજાયા છે. જેમાં ઉપજાતિનું સંયોજન ધ્યાનાર્હ છે. સામાન્યતઃ ઇન્દ્રવજા અને ઉપેન્દ્રવજા બે છંદોની કે ઈન્દ્રવંશા અને વંશસ્થ એ બે છંદોની સંયુક્ત સંરચનાને ઉપજાતિ કહે છે પરંતુ અહિં ઘણા સ્થળોએ ઈન્દ્રવજા કે ઉપેન્દ્રવજાના ૧૧ અક્ષરના પદો સાથે ઇન્દ્રવંશા કે વંસસ્થ જેવા ૧૨ અક્ષરોના છંદોના મિશ્રણદ્વારા ઉપજાતિ છંદ પ્રયોજાયો છે. रथोद्धता भने स्वागतार्नु संमिश्र ५९! (42-30) भणे छे. हर्षादुल्लसितैः१ स्मराद् विकसितै:२ प्रोन्मीलितै३ रागतो, लज्जामन्थरितैर्भयात्५ तरलितैविस्फारितैविस्मयात् । अन्तःस्नेहभरालसै:६ प्रियतमप्रेमाभावीकृतैः, श्रीनेमिर्न चचाल रागरहितः कान्ताकटाक्षैर्नवैः ॥१॥ [शार्दूल०] बाला पूर्णेन्दुकान्ति प्रथमवयसि प्रेयसीं यः प्रहित्वा, तस्थौ वै रैवताद्रेः शिरसि सरसान् कामभोगान् विहाय । वाचं नैवाऽनुमेने हरिमुशलिनोः प्राणिरक्षाप्रवीणो, राजीमत्याः कुचाभ्यां कठिनहृदयः सोऽस्तु नेमिः शिवाय ॥२॥ [चित्रमाला] निस्तहणं प्राणिगणस्य मत्वा, कृपायुतो यः प्रजहौ च कामिनीम् । भवानुबद्धामवियुक्तप्रेमां, राजीमती रागमती तदानीम् ॥३॥ [उपजाति:] द्वारावत्यां नग़र्यां जलशयनृपतिः क्षीरडिण्डीरकीर्तिः, श्रीनेमिस्तत्र नाथः कमलनयनरुक् सद्घनस्निग्धकायः । गोविन्दो राजकन्यां विशदगुणवती नाम राजीमती च, सम्पप्रच्छोग्रसेनं नरपतिचतुरं पाणिपीडाय नेमेः ॥४॥ [स्रग्धरा] ____१. उल्लासोऽन्तर्वृत्त्या शुभहेतुयुक्तभावत्वात् । २. विकसनं बहिर्वृत्या । ३. विशेषोन्मीलनं प्रियरागात् । ४. लज्जया मन्थरणं परस्परं विलोकनाऽभावात् । ५. भयं स्वाभाविकम् । ६. स्नेहभरालसत्वं नारीणां भर्तरि भवति । ७. हननम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy