________________
उज्जयन्ताचलमण्डननेमिजिनद्वात्रिंशिका- • ८७ याचे चञ्चलचञ्चरीकचरितं चेतश्चिरं दुस्तरध्वस्ताऽस्तो कमलत्वदंहिकमलक्रोडे परिक्रीडताम् ॥३०|| पूर्वं पर्वतदुर्गमग्रिममधिष्ठायोग्रसेनात्मजा, मुख्यानां मदनादिकाऽऽन्तररिपुश्रेणीमजैषीर्यथा । अंह:संहतिमुज्जयन्तमचलं चित्ताचलं त्वं तथा, तिष्ठासुन्नु किं नतां विजयसे नः क्षिप्रमेव प्रभो ! ॥३१॥ एष ब्रह्ममहःस्तवस्तवकृतो ब्राह्म्यैव भक्त्या गुरुप्रीत्या विश्वजनीनकेवलमहं हंसस्तदीयास्पदः । नीरक्षीरविवेककौशलबलात् त्यक्ताऽबलव्यापृतिभूयासं भवदीयशासनपय:सौहित्य नित्योत्सवः ॥३२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org